SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ _[अ० १, सू० १०.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते २३ एदोती पदान्ते प्राकृते ह्रस्वौ वा ॥ १० ॥ पदान्ते वर्तमानौ एकार-ओकारी प्राकृतभाषायां वा ह्रस्वो भवतः । यथा "पसगयवसम्मलिआएं उड्डोणससिविहंगाएं । पवलाई गलंति निसालयाएं नक्खत्तकुसुमाइं॥" [१०-१] "उअ पोमरायमरगयसंवलिमा गहयलाओं ओमरह। गहसिरिकंठभट्ट व्व कठिआ कोरिछोली ॥" [१०-२] 'ई हिं' इत्येतयोहं स्वत्वं शम्दानुशासने सानुनासिकत्वविधानात् सिमिति नेहोच्यते । अपभ्रंशे तु-अपदान्तयोरपि "कादिस्थदोतोरबारलाघवम्" [सिद्धहे० ८. ४. ४१०.] इति "पदान्ते उँहुँ हिं हं काराणाम्" [ सिद्धहे० ८.४. १११.] इति च ह्रस्वत्वं शब्दानुशासने निर्णीतमिति नेहोच्यते ॥सू०-१०॥ . प्रद्योतः-इत्थमेकमात्र-त्रिमात्रयोविषये गसंज्ञा द्विमात्रत्वप्रतिज्ञामुक्त्वा कचिद् द्विमात्रस्यापि एकमात्रत्वं भवतीति वस्तुतो गुरोरपि तस्य लघुत्वं भवतीति विशेषमाह-एदोतो पदान्ते प्राकृते ह्रस्वी वेति । विवृणोति-पदान्ते वर्तमानौ एकार-ओकारौ प्राकृतभाषायां वा ह्रस्वौ भवतः इति-पदान्ते पादान्ते वर्तमानयोरेकार-ओकारयोः प्राकृते यथालक्ष्यं हस्वत्वं भवतीति वस्तुतो द्विमात्रयोरपि तयोरेकमात्रित्वं भवतीत्यर्थः । एकार-ओकारयोरिति असंदेहाय सन्ध्यभावः ॥ क्रमश उदाहरति-यथा एकारस्यकमात्रत्वमुदाहियत इत्यर्थः। पच्चूस० इति- "प्रत्यूषगजवरोन्मूलिताया उड्डीनशशिविहंगायाः । धवलानि गलन्ति निशालताया नक्षत्रकुसुमानि ॥” इति संस्कृतम् । आर्याप्रमेदेऽस्मिन् ऊनत्रिशंन्मात्रामितपूर्वार्धपूर्तये प्रथम-द्वितीय-तृतीयपादानामन्ते समागतस्यैकारस्य ह्रस्वत्वं भवति । मुद्रिते पुस्तके द्वितीयपादान्तस्थस्य एकारस्य ह्रस्वत्वं न प्रदर्शितं, तस्यापि वस्तुतो द्विमात्र त्वस्यैव ह्रस्वत्वसूचकचिह्नन निर्देशनं न कृतमिति नोचितं प्रतिमाति, तथा सति मात्राधिक्यं स्यात् । अर्थश्च-प्रत्यूषः-प्रमातमेव गजवरः, तेन उन्मूलितायाः-विच्छेदं नीतायाः, उड्डीनः शशी चन्द्र एव विहंगः:-पक्षी यस्यास्तस्याः, निशालतायाः-लतात्वेना
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy