SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ २२ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ०१, सू०८-६] कतकः सकलुषा:-सकल्मषपङ्का जना एव सलिलं तस्य [नर्मल्याय] कतक:पङ्कापनोदकः फलबिशेष इव, त्वं जय सर्वोत्कर्षेण वर्तस्वेत्यर्थः । अत्र पथ्यायां जातो चतुष्कलत्रये विराम इति जिह्वामूलीयोपध्मानीयाम्यां पूर्वस्य गुरुत्वे त्रयोदशकला भवन्तीति मात्रावृद्धिः स्यादिति गुरुत्वं नाभीयते इत्युदाहरणतात्पर्यम् [७-८] ॥ सू० ७ ॥ दीर्घ-प्लुतौ ॥८॥ द्विमात्र-त्रिमात्री वर्णी 'ग'संज्ञो भवतः, वक्रो च ।। सू० ८॥ प्रद्योतः-लघोर्गुरुत्वप्राप्ति विचार्य वस्तुतो गुरुत्वस्य विधायकं सूत्रमाहदीर्घप्लुताविति । व्याख्याति-द्विमात्र-त्रिमात्रौ वर्णाविति-द्वे मात्रे-उच्चारणकालकले यस्य स द्विमात्रः, तिस्त्रो मात्रा:- उच्चारणकालकला यस्य स त्रिमात्रः, तौ च वर्णी, अर्थात् स्वरी तयोरेव तादृशत्वसम्भवात; ग़संज्ञो भवतः । वक्र इत्यप्यनुवृत्तमुद्देश्यपारवश्याद् द्विवचनान्ततया विपरिणते, तदाह-वक्रो चेति- प्रस्तारे वक्ररेखया संकेतनीयाविति भावः ॥सू०-८।। स द्विमात्रः ॥ ६ ॥ स 'ग्'संज्ञो द्विमात्रो भवति । एकमात्रे असती मात्रा आरोप्यते, त्रिमात्रे सती निराक्रियते ॥ सू०-६॥ प्रद्योतः-द्वि-त्रिमात्रयोर्वर्णयोः साधारण्येन गसंज्ञाविधानात् गसंज्ञा कि द्वयोर्मात्रयोर्बोधिका तिसृणां मात्राणामुभयोर्वेति संशये प्राप्ते इदमुच्यते-स द्विमात्रः इति । विवृणोति- स गसंज्ञो द्विमात्रो भवतीति- वस्तुत एकमात्रो द्विमात्रस्त्रिमात्रो वा भवतु, प्रज्ञायां सत्यां स साधारण्येन द्विमात्र एव गण्यत इत्यर्थः । फलितमाह- एकमात्रे असती मात्रा आरोप्यते, त्रिमात्रे सती मात्रा निराक्रियत इति । अयमाशयः-यत्र पादान्ते लघोरपि गसंज्ञा भवति, तत्र अविद्यमानव द्वितीया मात्रा आरोप्यते, आरोपश्च बाघसमानकालीनमाहार्यज्ञानम्, वस्तुगत्या एकस्या मात्रायाः श्रुतत्वेन द्विमात्रत्वज्ञानं बाधितमपि तत्समानकालीनमाहायं द्विमात्रत्वज्ञानं गृहीतं भवति । यत्र च वस्तुतः प्लुतत्वादिना त्रिमात्रत्वं श्रूयते तत्रापि गसंज्ञया द्विमात्रत्वमारोप्यत इति विद्यमानापि तृतीयामात्रा निरानियते-अपह नूयत इति ।।सू०-६॥
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy