SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ [अ० १ सू० ७.] सवृत्तिच्छन्दोऽनुशासनप्रद्यते भावे पूर्वलघोर्गुरुतासम्पादकत्वाभावे, हेतुः कारणमित्यर्थः । अयमाशयःसंयोगस्योच्चारणे तत्पूर्वं स्थितः स्वरस्तीव्र प्रयत्नेनोच्चार्थत इति तत्र मात्राधिक्यं भवतीति गुरुत्वं जायते, यत्र तीव्रप्रयत्नं विनैव संयोगपूर्वस्थितस्य स्वरस्योच्चारणं क्रियते तत्र गुरुत्वं न जायत इति स्वाभाविकमिति । यत्र तीव्र प्रयत्न आवश्यक एव तत्र गुरुत्वं जायत एवेत्याह- तीव्रप्रयत्ने तु भवत्येव गुरुः इति । उदाहरति- बहंभारेषु केशान् इति - मेघदूते यक्षेण विरहिणा कामिनोक्तस्य पद्यस्यांशोऽयम् । स हि प्रियां प्रति संदेशं मेघद्वारा प्रेषयन् प्रियां सम्बोध्याह "श्यामास्वङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं, वक्त्रच्छायां शशिनि शिखिनां, बर्हभारेषु केशान् । उत्पश्यामि प्रतनुषु नदीविचिषु भ्रूविलासान्, हन्तैकस्मिन् क्वचिदपि न ते चण्डि ! सादृश्यमस्ति ||" [ उ० मे० ४६ ] ॥ ते अङ्गं श्यामासु - प्रियङ्गुलतासु, दृष्टिपातं नेत्र व्यापारं चकितहरिणीप्रेक्षणे - चकितायाः - शङ्किताया हरिण्याः, प्रेक्षणे - नेत्र व्यापारे वक्त्रच्छायांमुखकान्तिं, शशिनि - चन्द्रमसि, केशान् शिखिनां - मयूराणां बर्हमारेषु, भ्रूवि - लासान् - कटाक्षक्रीडाः, प्रतनुषु क्षुद्रासु, नदीविचिषु-सरित्त रङ्गेषु, उत्पश्यामि - उत्प्रेक्षया साक्षात्करोमि, हे चण्डि ! कोपने ! क्वचिदपि - एकस्मिन् वस्तुनि, ते सादृश्यं न अस्ति, येनैकत्रीभूतं तद् दृष्टा विनोदमुपलमे, इति हन्त दुःखमित्यर्थः । अत्र बर्हेति पदे रेफयुक्तस्य हकारस्योच्चारणं तीव्रप्रयत्नसापेक्षमिति तस्मिन् परतो विद्यमाने पूर्वस्य गुरुत्वं जायत एवेति भावः [ ७-८ ]॥ अत्र मतान्तरमाह- केचित् त्विति केचित् - अनिर्दिष्टनामान आचार्याः, क- - ) ( पयोरपि परत्र जिह्वामूलीयोपध्मानीययोरपि परतः सतोः, पूर्वस्य लघोः तदव्यवहिनपूर्वस्थितस्यापि मात्रिकस्य स्वरस्य गुरुत्वं प्रकृतसूत्रोक्तनियमप्राप्तं गुरुभावं नेच्छन्ति न स्वीकुर्वन्ति । उदाहरति-यथा- प्रणतसुरवरेति, कनकमयसुतनु ! कनकमयी- सुवर्णवर्णा सुतनुर्यस्य तत्सम्बोधनं- हे कनकमयसुतनु ! हे जिनवर ! वृषभ ! परमविजितमदमदनजननमरणः परममत्यन्तं विजितानि, मदः - अहङ्कारः, मदन: - कामः, जननम् - उत्पत्तिः, मरणं प्राणवियोगश्चेति मदमदनजननमरणानि येन सः, प्रणतसुरवरधरणनृपः प्रणताः सुरवरा धरणा नृपाश्च यस्मै सः, सकलुषजनसलिल 2 २१ 1
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy