________________
२०
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० १, सू० ७.] स्नातुमवतीर्णे जलेन आद्रं कस्याश्चित् अंशुकान्तम्-अञ्चलम्, सात्त्विकभावातिरेकात् उत्स्रस्तम्-शरीरादपगतम् । यथा च-येन हेतुना च "न नग्नां स्त्रियं पश्येत्" इति निषेधात् तदर्शनं परिहरन् त्वम्, स्वच्छ-निर्मले. गोदानद्याः, तीर्थे-जलावतारे, न स्नातोऽसि इत्यर्थ इति । अत्रार्याच्छन्दसि व्हे संयोगे परतो गुरुत्वाभावान् मात्राधिक्यम् [७-५] ॥
तथा-वोद्रहद्रहमि पडिआ इति"ते विअ सुहया" ते च्वेअ पंडिआ ते जयंति जिअलोए। वोद्रद्रहम्मि पडिआ तरंति जे चेव लीलाए॥" इति पूर्णा आर्या ।
"त एव सुभगाः त एव पण्डिताः ते जयन्ति जीवलोके । ग्रामीणतरुणहदे पतिताः तरन्ति ये चैव लीलया ॥” इति संस्कृतम् । ग्रामीणाशिक्षितयुवकानां मध्ये निमग्ना अपि ये लीलया ततः पृथग् भवन्ति त एव सुभगाः, त एव पण्डिता, त एव जीवलोके विजयिन इति भावः । अत्र द्रहेति द्ररुपे संयोगेऽपि परतः पूर्वस्य गुरुत्वं न भवतीति न मात्रावृद्धिः । अत्र "द्रे रो नवा" [सि० ८. २. ८०.] इति सूत्रेण द्रशब्दरेफस्य विकल्पेन लोपेनात्र रेफस्य लोपाभावो विज्ञेयः [७-६] ॥ . एवं-"कुवलयखित्तद्रहि" इत्यादि, "पंकयपंकि वहोडि कुवलयखित्तद्रहि" इत्यादि रूपेण क्वापि समायाता मात्राजातिरियमपूर्णाऽस्पष्टा चेति नानूद्यते । अत्रापि 'द्रहि' इति द्रशब्दे परे पूर्वस्य लधोनं गुरुत्वमित्येतावन्मांत्रण प्रकृतोपयोगः । पर्यायेऽत्थम्-"कुवलयखितद्रहि ति-पंकयपंकि वहोडि, कुवलयखितद्रहि । बिवति वाडिहि घल्लि, ससहरु...''गहि । निम्मवि करवयणा-हर पुह लीलावहिं । उग्घीट्ठी निअसिट्टी निवाइ पयाइहि।" इति । अत्र कथञ्चिदियं संस्कृतच्छाया-पङ्कजानि पङ्के क्षिप्त्वा, कुवलयानि क्षिप्त्वा ह्रदे; विम्बानि वाटिकायां क्षिप्त्वा, शशधरं [गगनात्] गृहीत्वा । निर्माय कर-नयना-ऽधरमुखानि लीलावत्याः । उद्धृष्टा [उत्कृष्टा] इव सृष्टिः, निष्पादिता प्रजापतेः ॥ [७-७] ॥
प्रकृतसूत्रवणितहादिवर्ज़नं न केवलं वाचनिकमपि तु सहेतुकमपीत्याह-एषु अतीवप्रयत्नत्वं संयोगस्य गुरुत्वाभावे हेतुरिति । एषु प्रदर्शितेषु उदाहरणेषु, अतीवप्रयत्नत्वं तीव्रप्रयलोच्चार्यत्वाभावः, संयोगस्य संयुक्तवर्णस्य, गुरुत्वा