SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ [अ० १, सू० ७.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते भविष्यतीत्यर्थः । अर्थे रामणीयकामावेऽपि उदाहरणमात्रसम्पतये कल्पितमिदं पद्यम् । अत्र द्रुतविलम्बितच्छन्दसि प्रथमो नगणो द्वितीय-तृतीयौ भगणाविति व-प-मानां प्रथमपादे, 'शि-पि' इत्येतयोद्वितीयपादे, लस्य तृतीयपादे, मस्य चतुर्थपादे, लघुत्वमेव युक्तं, किन्तु प्रथमपादे 'ह्र-ह्रि-ह्री' इत्येतेषु, द्वितीयपादे 'ग्र-पु' इत्येतयोः, तृतीये 'भ्रा' इत्येतस्मिन्, चतुर्थे 'प्रि' इत्येतस्मिन् परतो गुरुर्व प्राप्तम्, तत् अह्रादिपर्युदासान्न भवतीति न च्छन्दोभङ्गः [७-२]॥ उदाहरणान्तरमाह-धनं प्रदानेनेत्यादि, प्रदानेन-सत्पात्रसमर्पणेन धनं [शोभते] श्रु तेन-सच्छास्त्रश्रवणेन कर्णो [शोभेते] इत्यादिरूपेणान्वयः । अत्रोपेन्द्रवज्राच्छन्दसि द्वितीयस्य तगणत्वेन 'प्रदानेन' इत्यत्र नकारस्य लघुत्वं युक्तं, तस्य श्रुशब्दे परे गुरुत्वं प्राप्तं न भवति [७-३] ॥ पुनरप्युदाहरति- लीलासिताजमिति, एतत्-परिदृश्यमानं, दिव:आकाशस्य, निह्नतदीप्ति-आच्छादितकान्ति वस्तुविशेषः, [दिवः स्त्रीत्वेनाध्यवसितायाः] लीलासिताब्जं-क्रीडाथं श्वेतकमलं किम् ?, उत दर्पणं किम् ? उत आतपत्रं-श्वेतच्छत्रं किम् ? अथ दन्तपत्रं-ताटकं किम् ?, अथवा किशंकवत्-पलाशपुष्पवत्, प्रकाशमानं मौलिरत्नं किरीटस्थं रत्नं किम् ? अथवा चामरं किम् ?, तिलकबिन्दुः-तिलकीकृतश्वेतचन्दनबिन्दुः किम् ? अथ-अथवा इन्दुबिम्बं-चन्द्रमण्डलं किम् ?, यदस्तु तदस्तु, किन्तु तत् कस्य मुदे नेत्यन्वयः । अत्र वसन्ततिलकाच्छन्दसि प्रतिपादं द्वितीययस्य भगणत्वेन पञ्चमस्य 'नि' इत्यस्य लघुत्वमपेक्षितं तत् 'हनुरूपे संयोगे न प्राप्तमिति प्रकृतनियमाल्लघुत्वं तिष्ठत्येव [७-४] ॥ इत्यं संस्कृते समुदाहृत्यान्यत्राऽप्युदाहर्तुमाह-प्राकृतेऽपि यथेति-प्राकृतेऽपि प्रकृतसूत्रानुसारं हसम्बन्धिसंयोगे गुरुत्वं यथा न भवति तथोदाहियत इत्यर्थः । जह ण्हाउ० इति-यथा-"स्नातुभवतीर्णे अभिषिक्तयुत्स्रस्तमंशुककपर्यन्तम् । यथा च न स्नातोऽसि त्वं स्वच्छे गोदानदीतीर्थे ।।" इति संस्कृतम् । अत्र च्छन्दोऽनुशासनपर्याय इत्थम्-"जह हाउं ति-स्नातुमवतीर्णे सात्त्विकभाववशात् आद्रं सत् उत्सस्तम्, अंशुकपर्यन्तम् "अखंतो पेरन्ते" इति वचनात्, उद्धृतशफरीं दृष्ट्वा चकितो न स्नात इति संटङ्कः" इति। अत्र केचिदेवमाहुः-त्वयि
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy