________________
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० १, सू० ७.] प्रद्योतः-लघोर्गुरुत्वस्य नियमान्तरमाह-क-)(प-विसर्गानुस्वार० इति । सूत्रं विवृणोति-जिहामूलीये क-खाभ्यां प्राग् विसर्गस्थानीयो वज्राकारो जिह्वामूलीय इति कथ्यते, तस्मिन् परतः प्रयुज्यमाने, उपध्मानीये पफाभ्यां प्राग विसर्गस्थानीयो गजकुम्भाकार उपध्मानीय इति कथ्यते, तस्मिन परतः प्रयुज्यमाने, विसर्जनीये विसर्गे, अनुस्वारे स्वरात् परतः प्रयुज्यमाने भकारादिस्यानीये बिन्दुरूपे, व्यञ्जने स्वरवियुक्त व्यञ्जनमात्रे, हादिवजिते संयोगे च 'ह-र' एतयोः प्रत्येक मिलित्वा वा संयोगं वर्जयित्वाऽन्यस्मिन् संयोगे च, परे परतः प्रयुज्यमाने सति, ह्रस्वोऽपि गो भवति वक्रश्च एतच्च पूर्वानुसृतार्थवर्णनम् । एतास्ववस्थासु ह्रस्वस्यापि गुरुत्वं भवति स च वक्र: वक्ररेखारूपेण प्रस्तार्य इत्यर्थः । 'अहादि' इति संयोगपर्युदासो न केवलं हकारोत्तररेफरूपसंयोगपरोऽपि तु यथाकथंचित् एतद्वर्णद्वयसंयोगपर इत्याह'अह्लादि' इति समस्तव्यस्तसंग्रहात्-हसंयोगे हसंयोगे रसंयोगे चेति । अयमाशयः-'ह्र' इति हकारोत्तररेफरूपः संयोगः समस्तः, वर्णान्तरैरपि हकाररेफयोः प्रातिस्विकसंयोगो व्यस्तः, संयोग इत्युभयोरेवात्र ग्रहणं विनिगमकाभावात् लक्ष्यानुरोधाच्च । 'अहसंयोगे' इत्येव वक्तव्ये आदिपदोपादानं किमर्थमित्याशङ्कायामाह-आदिशब्दाद् यथादर्शनम् इति-आदिशब्दोपादानेन यथालक्ष्यमन्यसंयोगेऽपि लघोर्गुरुत्वं न भवतीत्यर्थः ।
उदाहरति-हादिसंयोगे यथेति-ह्रादिसंयोगे लघोर्गुरुत्वं यत्र न भवति तदुदाह्रियत इत्यर्थः । स्पृष्टं त्वयेति । त्वया मम किञ्चिदङ्गं यन्न स्पर्शनीयं तत् स्पृष्टम्-आमृष्टमिति, अपहियः अपगतलज्जाः [ललनाः] कीर्तयन्ति उद्घोषयन्तीत्यर्थः । अत्र वसन्ततिलकायां छन्दसि द्वितीयस्य भगणस्य लध्वन्तत्वेन पकारस्य लधुत्वं युक्तं तद्धि यदि ह परे गुरुत्वं भजेत तर्हि छन्दोभङ्गः स्यादिति गुरुत्वं न भवति [७-१] ॥
ह्र संयोगान्तरे च परतो गुरुत्वाभावमुदाहरति-तथा-तव हियेतिहे प्रिये ! तव भवत्याः, ह्रिया-लज्जया कारणेन, अपहियो निर्लज्जस्यापि मे, ह्री:-लज्जा, अभूत्, अतः शशिग्रहेऽपि चन्द्रग्रहणसमयेऽन्धकारप्रादुर्भावेऽपि न घृता हस्ते गृहीता। तत् तादृशं, बहलं-घनीभूतं, भ्रामरमेचकं-भ्रमरसम्बन्धिरूपवत श्यावर्ण, तामसं-तमः पुनः, क्व समेष्यति कस्मिन् समये सङ्गतं