________________
[अ० १, सू० ७.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते विषमसंख्यायाम्-प्रथम-तृतीययोः पादयोः, विरामविसयंमि विरामविषये पादारते, एक्कलहू एकलघुः [विवक्षावशात्] गुरुअ च्चिअ होइ गुरुरिव भवति । समसंखासंठिओ समसंख्यासंस्थितः-युग्मपादान्तस्थ इत्यर्थः । जमललहू युग्मलघु:-गुरुः, लहुअ चिअ होइ लघुरिव भवतीत्यर्थः, [६-३] ॥ सू०-६ ॥
-क-) (प-विसर्गा-ऽनुस्वार-व्यञ्जना- हादिसंयोगे ॥७॥ जिह्वामूलीये उपध्मानीये विजर्जनीये अतुस्वारे व्यञ्जने हादिवजिते संयोगे च परे ह्रस्वोऽपि गो भवति वक्रश्न ।'अहादि'इति समस्तव्यस्तसंग्रहात-हसंयोगे हसंयोगे रसंयोगे च न गुरुः। आदिशब्दाद् यथा दर्शनम् । हादिसंयोगे च यथा
"स्पृष्टं त्वयेत्यपहियः खलु कीर्तयन्ति ।" [७-१]॥ तथा"तव हियाऽपहियो मम ह्रीरभूत, शशिग्रहेऽपि द्रुतं न ता ततः। वहलभ्रामरमेचकतामसं, मम प्रिये ! क्व समेष्यति तत् पुनः॥" [७-२] "धनं प्रदानेन श्रुतेन काँ" [७-३] । इत्यादि । "लोलासिताब्जमुत दर्पणमातपत्रं, कि दन्तपत्रमथ किंशुकमोलिरत्नम् । किंचामरं तिलकबिन्दुरथेन्दुबिम्बमेतद् दिवो निह नुतदीप्ति मुदे न कस्य ।।" [७-४]। प्राकृतेऽपि यथा"जह हाउं ओइण्णे अग्भुत्तमुल्हसिअमंसुअलुतं । जह य ण ण्हामो सि तुमं सच्छे गोलानईतूहे ॥" [७-५] । भग्भुत्तं अभिषिक्तम्, तूहं तीर्थम् । तथा"वोब्रहद्रहमि पडिआ०" [७-६] "कुवलयखित्तद्रहि०" [७-७] । इत्यादि । एषु अतीवप्रयत्नत्वं संयोगस्य गुरुत्वाभावे हेतुः। तीवप्रयत्ने तु भवत्येव गुरुः । यथा- "बर्हमारेषु केशान०" [७-८] । केचित् तु- क-)(पयोरपि परत्र स्थितयोः पूर्वस्य लघोगुरुत्वं नेच्छन्ति । यथा
"प्रणतसुखरधरणनृप)(परमविजितमदमदनजननमरणः ।
सकलुषजनसलिलकतक कनकमयसुतनु जिनवर ! वृषम ! जय ॥" [७-६] ॥ सू०-७॥