SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ __ [अ० १, सू० ६.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते मात्रयोच्चार्यों वर्णो ह्रस्वः, स चात्रानुशासने ल् इति व्यवह्रियत इत्यर्थः । 'ह्रस्वो ल्' इत्येतस्यार्थमुक्त्वा शिष्टस्य 'ऋजुः' इत्यंशस्यार्थमाह-स च प्रस्तारे ऋतः स्थाप्य इति-'ल्' इत्यस्य देहलीदीपन्यायेन पूर्वत्र परत्र चान्वयः, पूर्व प्रति अस्य विधेयरूपेणोपस्थितिरिति संज्ञापरत्वम्, परम् 'ऋजु' इति पदं प्रति च उद्देश्यत्वेनोपास्थितिरिति स ऋजुः ऊर्ध्वाधः सरलक्रमेण स्थितरेखा'।'रूपेण प्रस्तारसमये स्थापनीय इत्यर्थः ॥ सू०-५॥ वा-ऽन्ते ग वक्रः ॥ ६ ॥ पदान्ते वर्तमानो ह्रस्वो गसंज्ञो भवति, स च प्रस्तारे वक्र: स्थाप्यते । वेति व्यवस्थितविभाषा, तेन यत्र "ौ ग्लो समानी" [२. ८३.] इत्यादावपवादस्तत्र गसंज्ञो न भवति । वंशस्थादौ च पादान्ते लघोगुरुत्वं न भवति । यदाह "वंशस्थकादिचरणान्तनिवेशितस्य, गत्वं लघोर्नहि तथा श्रुतिशर्मदायि । श्रोतुर्वसन्ततिलकादिपदान्तवति-लो गत्वमत्र विहिनं विबुधर्यथा तत् ॥" [६-१] । वासु विवक्षावशात् गुरुत्वं लघुत्वं च । यदाह "ओजसंख्या यदाभीष्टा, ध्रुवासु विरतौ तदा। गो लता युग्मसंख्ये तु, विरतो गुरुता लघोः ॥" [६-२] । तथागुरुअ चिम एक्लहू, विरामविसयंमि विसमसंखाए। जमललहू लहुअ चिअ समसंखासंठिओ होइ ॥" [६-३] ॥ सू०-६ ॥ प्रद्योतः-द्विमात्रस्य गसंज्ञां वक्ष्यति, क्वचिद् ह्रस्वस्यापि गसंज्ञाऽमिमतेति प्रकरणात् तां कथयन् गुरुस्वरूपमप्याह-वाऽन्ते ग वक्रः इति । विवृणोतिपादान्ते वर्तमानो ह्रस्वो गसंज्ञो भवतीति । अन्तपदस्य समुदायसापेक्षत्वात् कस्यान्ते इत्याकाङ्क्षाया व्याख्यानमात्रनिवर्त्यत्वेनाह-पादन्ते इति । पादश्च पद्य चतुर्थाशः, तदन्ते यदि लघुर्मवेत् स यथाप्रयोजनं 'ग्'संज्ञो भवति । सर्वत्र गुरुत्वाभावात् वेत्याह, तच्चाने स्वयमेव स्फोरयिष्यति । 'वक्रः' इत्यशं व्याख्याति स च प्रस्तारे वक्रः स्थाप्यते इति-'ग्' इत्यस्य पूर्वसूत्रोक्तरीत्या पूर्वत्र परत्र च विधेयत्वेनोद्देश्यत्वेन यथायथं सम्भन्धात् स चेत्यर्थलाभः, वक्र: सर्पगत्युपलक्षितकुटिलरेखा''रूपेण प्रस्तारे स्थापनीय इत्यर्थः। वेति व्यस्थितविभाषा तेन यत्रेत्यादि- वेति पदेन विभाषार्थो विकल्पः सूच्यते, सा
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy