________________
सवृतिच्छन्दोऽनुशासनप्रद्योते [अ० १, सू० ५.] समानस्तावतिया गादयोऽपि गृह्यन्ते । ग-१, गा-२, गि-३, गी-४, गु-५, गू-६, गृ-७, 4-८, ग्ल-६, ग्ल-१० । एवं लादयोऽपि ॥ सू०-४॥
प्रद्योतः-पूर्वनिर्दिष्टानां वर्णगणानां मात्रागणानां गुरु-लध्वोश्च नियतसंख्यकानां लाघवेन निर्देशस्योपायमाह-'समानेनकादिः' इति । सूत्रस्य सूक्ष्माक्षरत्वादमिषेयार्थस्य सूचनमात्रपरत्वाच्च विवरणमाह वृत्तिकृत्- ग्लो मादयो दादयश्चैत्यादि। ग्लौ गुरु-लघुप्रतीकभूतो गकार-लकारी मादयः मगणादिवर्णप्रतीकभूताः म-न-भ-य-ज-र-स-ताः, दादयश्च द्विकलादिमात्रागणप्रतीकभूताः-द-त-च-प-षाश्च, समानेन “लदन्ताः समानाः" इति [सि० सू० १. १. ७.] सङ्केतिता अकारादयो लुकारपर्यन्ता वर्णाः समानसंज्ञाः, तेन तेन स्वरेण लक्षिताः उपलक्ष्य निर्दिष्टाः, एकादिसंख्या भवन्ति प्रथमेन समानेनोपलक्षिता एकसंख्याबोधकाः, द्वितीयेन द्वयोः, तृतीयेन त्रयाणामित्येवं क्रमेण दशसंख्यापर्यन्तं स्वं बोध्थार्थ सूचयन्ति । तदेव स्फोरयन्नाह-यावतिथः समानस्तावतिथा गादयोऽपि गृह्यन्ते इति-यावतिथः-यत्संख्यायाः पूरणः, समानः-स्वरः, तावतिथा:-तावत्संख्याकाः, गादयोऽपि-गुरु-लघु-मादिदादिगणा अपि, गृह्यन्ते-प्रतीतिपदवीं गच्छन्ति । तदेव स्वरूपतो दर्शयतिग-१ गा-२ गि-३ इत्यादिना ग्ल १० पर्यन्तम् । प्रकृतमर्थमतिदिशतिएवं-लादयोऽपीति-ल-१ ला-२ लि-३ इत्येवं लघु संख्या, म-१ मा-२ मि-३ इत्येवं मगणादिसंख्या, द-१ दा-२ दि-३ इत्येवं द्विकलादिगणसंख्या च विज्ञेयेति भावः ॥ सू०-४॥
ह्रस्वो ल ऋजुः ॥ ५ ॥ ह्रस्वो-मात्रिको वर्णो संज्ञो भवति, स च प्रस्तारे ऋजुः स्थाप्यः ।।सू०-५॥
प्रद्योतः-मादयो वर्णगणा दादयश्च मात्रागणा द्वितीय-तृतीयसूत्राभ्यां निरूपिताः, तत्स्वरूपपं च प्रदर्शितम्, लघु-गुर्वोः 'ल्-ग' संज्ञा च न निरूपिता नवा तत्स्वरूपं प्रदर्शितमिति तत्प्रदर्शनायाह-ह्वस्वो लजः इति-"ह्रस्वः ल् ऋजुः' इति पदच्छेदः । विवृणोति-ह्रस्वो मात्रिको वर्णो 'ल'संज्ञो भव तीति-"एकमात्रो भवेद्बस्वो द्विमात्रो दीर्घ उच्यते" इत्यमियुक्तोक्तया एक