SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ [अ० १, सू० ३] न्त्र्यात् तथापि इतरेतरयोगद्वन्द्वे सर्वपदार्थस्य तुल्यं प्राधान्यमिति भवति प्रत्येकं संज्ञात्वम् । ननु 'आदि-मध्य-अन्त'पदानां महिम्ना समुदायस्य वर्णत्रयात्मकत्वं स्वत एव प्रतीयत इति त्रिकाविति समुदायस्वरूपबोधकं पदं व्यर्थमेवेति चेदत्राह-चतुग्लादीनामपि मादिसंज्ञा मा भूदिति नियमार्थमाह-त्रिकाविति, अयमाशयः-आदिमध्यान्तेति पदत्रयमहिम्ना एक-द्वि-वर्णात्मकस्य समुदायस्य व्यावृत्तावपि चतुरादिवर्णात्मकानां समुदायानां व्यावृत्तिर्न स्यादिति तेषां व्यावर्तनाय त्रिकाविति पदं नियमार्थम्-त्रिकावेव, न चतुष्कः पञ्चको वेत्यादि । त्रिकाविति पदं व्युत्पादयति-त्रयः प्रमाणंमनयोस्ताविति-समुदायो प्रत्ययार्थः । प्रत्ययविधिसूत्रमाह-"मानम्" [सि० है० ४. ६. १६३.] इति के इति-मानमित्यर्थे "संख्याडतेश्चाशत्-ति-ष्टेः कः" [सि० ६.५.१३०.] इति विहित क इति भावः। सूत्रपाठानुसारं सम्बन्धमाह-तत्र सर्वग्लो म्नौ इत्यादिना । प्रत्येक विशकलितः सम्बन्धः पूर्वमुक्त एव । यत्र गणे यो वर्णो विशिष्य गुरुर्ल घुर्वोक्तस्तत्र तदतिरिक्तौ लघू गुरू वा यथाक्रमं विज्ञेयो । गुरोलंघोश्च न्यासप्रकारं वक्ष्यति पञ्चम-षष्ठाभ्यां सूत्राभ्यां "ह्रस्वो ल्-ऋजुः" "ग्-वक्रः" इति । तथा च ऋज्वी रेखा ।' लघुसूचिका, वका 'ड' रेखा गुरुसूचिका। तदनुसारमेव वर्णगणानामेषां न्यासप्रकारमाह-सर्वषां न्यास इति । एवं च-सर्वगुरुः ऽऽऽ त्रिक:-मः, सर्वलघुः ॥-नः, आदिगुरुः ।-भः, आदिलघुः Iss-यः, मध्यगुरुः ।।-जः, मध्यलघु: ।ऽ-रः, अन्तगुरुः ॥5- सः, अन्तलघुः ssI- तः, इति न्यासक्रमः ॥ 441.2/2454 स्वोक्तार्थे पूर्वाचार्यसम्मतिमाह-पठन्ति च-मस्त्रिगुरुः इत्यादि, "त्रिगुरुः:-मः, त्रिलघु:-नः, आदिगुरु:-भ, आदिलघु:-यः, गुरुमध्य:-जः, मध्यलघु:रः, अन्तगुरु;-सः, अन्तलघुश्च-तः, कथितः" इत्यन्वयः, स्पष्टश्चार्थः। वर्णगणवर्णनपरिसमाप्तिमाह-इति वर्णगणाः इति । सू०२ प्रमाणवचनम् १।।सू०२॥ द्वि-त्रि-चुतुष्-पञ्च-षट्कला द-त-च-प-षा- द्वि-त्रि-पञ्चा-ऽष्ट-त्रयोदशभेदा मात्रागणाः ॥३॥ कला मात्रा, द्विकलो-दसंज्ञः, त्रिकल:-तसंज्ञः, चतुष्कल:-चसंज्ञः, पञ्चकल:पसंज्ञः, षटकल:-बसंज्ञः। इति द्वि-त्रि-चतुष्-पञ्च-षण्णामादिप्रतीकेन "कृ
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy