SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ १० सवृत्तिच्छन्दोऽनुशासन प्रद्योते [अ० १, सू० २.] कर्तविशेषणत्वेनोक्तमिति त्रयाणामपि शब्दानुशासन-काव्यानुशासन-च्छन्दोऽनुशासनानामेककर्तृकत्वप्रतिपादनम् । किञ्चैतेन सकलस्य वाग्व्यवहारस्योपकारकाणि शास्त्राणि मथकैनैव लोकोपकृतये रचितानीति स्वशक्तिव्यापकत्वमपि सूचितं भवतीति विज्ञेयमिति ।। अ० १, सू०-१॥ सर्वादि मध्या-न्तग्लौ त्रिकौ म्नौ भ्यौ नौ स्तौ वर्णगणाः ॥२॥ सर्वादि-मध्या-ऽन्ती गुरु-लघू ययोस्तो यथाक्रम 'म्नौ भ्यो नो स्तो' इत्येवं संज्ञो ज्ञेयो। चतुग्लादीनामपि मादिसंज्ञा मा भूदिति नियमार्थमाह-त्रिको, प्रयः प्रमाणमनयोस्तौ "मानम्" [सिद्धहे० ६.४.१६९.] इति के त्रिको। तत्र सर्वग्लो-स्नो, आदिग्लो भ्यौ, मध्यग्लौ-नौ, अन्तग्लो-स्तौ । सर्वेषां न्यासःsss म, न, ॥ म, Is य, ।। ज, I र, ॥ स, ऽऽ। त । पठन्ति च "मस्त्रिगुरुस्सिलघुश्च नकारो, मादिगुरुश्च तथादिलघूर्यः। जो गुरुमध्यो मध्यलघूरः, सोऽन्तगुरुः कथितोऽन्तलघुस्तः॥" इति वर्गगणाः [२-१ ] ॥ सू०-२॥ प्रद्योतः-सर्वा-ऽऽदि-मध्याऽन्तेति-वर्णमात्रामेदेन वृत्तानां द्वैविध्यमुक्तं पूर्वकारिकावृत्ती, तत्र संक्षेपतो वृत्तानां स्वरूपनिरूपणाय वर्णगणा मात्रागणाश्च कल्पिताः, तेषु प्रथमं वर्णगणानाह प्रकृतसूत्रेण । सूत्रं विवृणोति-सर्वाऽऽदिमध्या-ऽन्तौ गुरु-लघू ययोरिति-सर्वश्च आदिश्च मध्यश्च अन्तश्चेति संख्यासामान्यविवक्षया द्वन्द्वः, ग् च ल चेति पृथक् द्वन्द्व समासः, सर्वादिमध्यान्तशब्दा अधिकरणार्थपराः, ततस्तयोः पदयोः समानाधिकरणो बहुव्रीहिः, सर्वादिशब्दानां पृथक् पृथक् द्वन्द्वान्ते श्यमाणाभ्यां ग्लाभ्यां सम्बन्धः, तथा च म्ना-वित्यादिपदानामपि गणद्वयपरत्वेन पृथक् पृथक् सम्बन्धकल्पने-सर्वगः त्रिक:-मः १, सर्वलः त्रिक:-न: २, आदिगः त्रिक:-भः ३, आदिल: त्रिक:-यः ४, मध्यगः त्रिक:-जः ५, मध्यल: त्रिक:-रः ६, अन्तगः त्रिक:-सः ७, अन्तल: त्रिक:-तः ८, इत्येवं विशकलितो बोघः। सर्वादीत्यादिपदं त्रिकावित्यस्य विशेषणम्; त्रिकाविति चोद्देश्यपरं संज्ञिबोधकम्,म्नावित्यादि च संज्ञाबोधकम्, तदाह-यथाक्रमं म्नौ म्यौ नौ स्तौ इत्येवंशंज्ञौ ज्ञेयाविति । यद्यपि एतेषां द्वन्द्वपदानां समुदायरूपेणैव संज्ञात्वं प्राप्नोति विधेयबोधकपदत्वेन स्वात
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy