________________
[अ० १, सू० १.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते न युक्तमिति भावः । उत्तरयति-मैवं वोचः इति-वचे—गो वा अद्यतन्या द्विती यत्रिकैकवचनम्, माङो योगादडागमाभावः, एवम्-उक्तप्रकारेण, मा-नहि, वोच:-कथय, कुत इत्याह-नहि सूक्तं किञ्चिदित्यादि । जगति संसारे, किमपि सूक्तं शोभनवचनम्, अर्हतां तीर्थकराणाम्, उपदेशम् आद्योच्चारणम् अन्तरेण विना न अस्ति । सर्वमेव लोकहिताधायकं वचनं अहंदुपदेशसम्बद्धमेवेति छन्दसामपि सूक्तान्तगर्तत्वात् परम्परयाऽपि अर्हत्प्रभवत्वमेवेति भवत्याहत्या वाचोऽधिकृतदेवतात्वम् ।
उक्तार्थे श्रीसिद्धसेनदिवाकरवचनसम्मतिमाह-यत्-श्रीसिद्धसेनः-"सुनिश्चितमित्यादि । “परतन्त्रयुक्तिषु याः काश्चन सूक्तसम्पदः स्फुरन्ति ताः तवैव [इति] नः सुनिश्चितम् [यतः]पूर्वमहार्णवोद्धृताः जिनवाक्यविपुषः जगत्प्रमाणम्" इत्यन्वयः । परेषां-जैनागमानुयायिमिन्नानां, तन्त्रेषु-आगमेषु, युक्तिषु-युक्तिप्रतिपादकसंग्रहेषु च, याः काश्चन विरलाः, सूक्तसम्पदः शुभवचनात्मकसम्पत्तयः, स्फुरन्ति विद्योतन्ते, ताः सर्वाः, तवैव त्वत्सम्बन्धिन्य एव, यतः पूर्वमहार्णवोद्धृताः सर्वाङ्गभ्यः पूर्व तीथङ्करैरभिहितत्वात् पूर्वाणि, तानि च उत्पातादीनि लोकबिन्दुसारपर्यन्तानि आगमग्रन्यात्मकानि चतुर्दश, तान्येव महार्णवः-सवार्थ रत्नसंग्राहित्वात् स्वयम्भूरमणनामा सर्वतो महान् समुद्रः, तत उद्धृताः-स्वाप्रतिमप्रतिभया प्राकटय नीताः, जिनवाक्यविपुषः अर्हद्वचनबिन्दव एव जगत्प्रमाणं विश्वस्मिन् व्यवहारे प्रमाणभूताः, नान्यत् किञ्चन सांसारिकेहिकामुष्मिकव्यवहारे प्रामाण्यं प्राप्तुमर्हति । ततश्च यत्किञ्चिदिह शुभं प्रमाणभूतं च वचनमुपलभ्यते तत् सर्वमर्हत्सम्बध्येवेति छन्दसामपि तदधीनत्वं सिद्धम् । इत्थमशेषशङ्काकलङ्कप्रक्षालनं कृतमिति निगमयति-इति सर्वमवदातमिति, इति-इत्थं प्रकारेण, सर्वे-प्रकृतमङ्गलश्लोकवणितं वस्तु, अवदातं-दोषसम्बन्धरहितम् ।
ननु प्रकृतग्रन्थमङ्गलश्लोके पूर्वविरचितयोः शब्द-काव्यानुशासनयोश्चर्चायाः किमौचित्यमिति चेदत्राह-अनेन च श्लोकेनेत्यादि,अयमाशयः-महति संसारे निरवधौ च काले भवति केषांचित् संशयो यत्-इमानि अनुशासनानि नैककर्तृकानि, अपि तु पृथक् पृथगेवतेषां कर्तारः, कालभेदेन देशभेदेन कर्तृनामैक्य सम्माव्यत इति तदुच्छेदायात्र श्लोके 'सिद्ध-शब्दकाव्यानुशासनः' इति