SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० १, सू० १.] तेति शङ्कायामाह-काव्योपयोगाभावाच्चेत्यादि,प्रकृते हि काव्योपयोगिनामेव छन्दसां लक्षणं विवक्षितमिति वेदानां काव्यबहिभूर्तत्वेन तच्छन्दसामिह कथनस्यानावश्यकत्वेन तानि नेह लक्षयिष्यन्ते स्वरूपप्रतिपादनेन निरूपयिष्यन्ते । छन्दसामित्यत्र षष्ठीविभत्त्यर्थः क इत्याह-कर्मणि षष्ठीति-"कर्मणि कृतः" [ सि० सू० २. २. ८३. ] इति विहितेति भावः । छन्दःशब्दव्युपत्तिमाहचन्दनादालादनादिति-चदु आह्लादे दीप्तौ च पठितो भौवादिको धातुः, तस्मादौणादिकोऽस्प्रत्ययः, पृषोदरादित्वादु वर्णव्यत्ययेन चकारस्य छकार इति छन्दःशब्दध्युत्पत्तिः । पर्यायमाह-वर्णमात्रानियमितानि वृतानीति-इह हि द्विविधानि वृत्तानि, कानिचिद् वर्णनियमितानि कानिचिन्मात्रानियमितानि, वर्णैः-वर्णसन्निवेशविशेषः, नियमितानि-बद्धस्वरूपाणि, मात्राभिः-कालविशेषोपलक्षिताभिः, नियमितानि वृत्तानि-मात्रावृत्तानि, मात्रा चेत्थं लक्षिताऽभियुक्त:-"कालेन यावता पाणिः पर्येति जानुमण्डले । सा मात्रा कविभिः प्रोक्ता" इति, तेषां वृत्तानामनुशासनं छन्दोऽनुशासनम् । अनुशासनपदं व्युत्पादयतिअनुशिष्यतेऽनेनेति, तथा च करणेऽनः, तच्चेदं शास्त्रमिति, अनेन शास्त्रेण भरतादिपूर्वाचार्यशिष्टानि छन्दांसि अनुशिष्यन्ते। कर्तुरिहानुक्तेराक्षेपलभ्यत्वमित्याह-वक्ष्य इति तृतीयत्रिकप्रयोगादिति-क्रिया हि कर्तारं विनाऽनुपपन्ना तमाक्षिपति, सा चेह वक्ष्य इति तृतीयत्रिकेकवचनरूपा, तृतीयं च त्रिकमस्मधुपपदे सत्येव भवति "त्रीणि त्रीणि-अन्ययुष्मदस्मदि" [सि० सू० ३. ३. १७.] इत्यनुशासनात् । तथा चास्मदः प्रयोगं विनाऽनुपपद्यमानस्तृतीयत्रिकप्रयोगोऽस्मच्छब्दप्रतिपाद्यं कर्तारमाक्षिपतीति-अहमिति [कर्ता] लभ्यते । प्रकृतपद्यावतरणिकायाम्-'इष्टाऽधिकृतदेवतानमस्कारपूर्वकम्' इत्युक्तं, तत्र शङ्कते-ननु भवतु 'वाचं ध्यात्वाऽर्हतीम्' इति इष्टदेवतास्तुतिः, अधिकृतदेवतास्तुतिस्तु कथमियम् ? इति, अयमर्थः-आहती वाक् परमेष्ठिसम्बन्धादहिततरेति प्रसादनीयत्वेनेष्टा भवितुमर्हति अधिकृतानां-प्रकृतानां छन्दसां देवतात्वं तु तस्या न युक्तमिति तावानंशस्तत्रासङ्गतः । तत्र हेतुमाह-नाधिकृतानि छन्दांस्यहत्प्रणीतानि इति, अधिकृतानि-प्रकृतग्रन्थप्रतिपाद्यानि, छन्दांसि-वृत्तानि,न अर्हद्भिः प्रतिपादितानि,अपितु पूर्वाचार्य:भरतादिमुनिभिरेव प्रतिपादितानीति आर्हत्या वाचस्तद्देवतात्वं-तदधिष्ठात्रीत्वं
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy