________________
[अ० १ सू० १.]
सवृत्तिच्छन्दोऽनु (सनप्रद्योते
संयोगादिरूपः, वाचिकः शब्दप्रयोगरूपः, मानसिकच मनसैव तदर्हत्वस्वीकारः । तथा चात्र ध्यानेन मानसिकः प्रणिपात एव बोध्यत इत्यर्थः ।
काव्योपयोगिनामिति छन्दसां विशेषणमुक्तमिति सर्वत्र काव्ये छन्दसामुपयोगे एव संगच्छेतेति काव्यस्य गद्यपद्यात्मकत्वेन द्वैविध्यात् गद्ये च प्रकृतच्छन्दसामनुपयोगान्न्यूनतेति शङ्कायामाह -गद्यकाव्ये न च्छन्दसामुपयोग इत्यर्थात् पद्यं काव्यमिह गृह्यत इति, अर्थादिति - अर्थमनुरुध्येत्यर्थः, “गम्ययपः कर्माधारे" [ २. २.७४ ] इति पञ्चमी । तथा च यद्यपि गां पद्यमुभयमपि काव्यमेव तथाऽपीह छन्दसामुपयोगरूपार्थानुरोधेन पद्यरूपमेव काव्यं काव्यपदेन गृह्यत इति न न्यूनता । उपयोगपदस्य यथाकथंचिदुपकारसाधारणपरत्वेनेह विशिष्योपयोगप्रकारमाह- उपयोगः साहायकं वृत्तसंशयच्छेदादिनेति, कवयो हि न छन्दांस्यनुरुध्य काव्यानि विरचयन्ति किन्तु स्वभावत एव तत्तच्छन्दोरूपेण तेषां वाक् प्रसरति, बोद्धृणां च तत्र संशयः सम्भवति-किमिदं छन्दः ? इति तादृशसंशयच्छेद एवैतच्छास्त्र प्रयोजनम्, तथा च काव्यसम्बन्धिवृत्तसंशयच्छेदे साहायकम् - उपकार एवास्य शास्त्रस्य, शास्त्रप्रतिपाद्यानां छन्दसां चोपयोग इति विशकलितार्थः । छेदादीत्यत्रादिपदेन च यतिसंशयच्छेदोपकारकत्वं तत्तच्छन्दोऽनुसरणेन काव्यानिर्माणोपकारकत्वं च विज्ञेयम् । उक्तार्थे पूर्वाचार्य सम्मतिमाह - "छन्दोविचितेर्वृ त्तसंशयच्छेदः” इति-विचयनं विचितिः सङ्ग्रहः, छन्दसां विचितिश्छन्दोविचितिः, तस्याः-तामाश्रित्येत्यर्थः, अत्रापि “गम्मयपः ० " [ २. २. ७४. ] इति कर्मणि पञ्चमी; वृत्तेषु - वृत्तविषये यः संशयः सन्देहस्तस्य छेदः - निवृत्तिरित्यर्थः [१. २. ] ।
मङ्गलाचरणेनैवानुबन्धचतुष्टयस्यापि सूचनं भवतीति पूर्वाचार्यपरिपाटी, तां स्फोरयन्नाह - इदमभिधेयप्रयोजनमिति - अभिधेयस्य-ग्रन्थप्रतिपाद्य विषयस्य, प्रयोजनं - यमर्थमधिकृत्य प्रवृत्यते तदित्यर्थः । अयमाशयः - विषय - प्रयोजना -ऽधिकारि-सम्बन्धा अनुबन्धचतुष्टयपदवाच्याः, तत्र छन्दांसि प्रकृतग्रन्थप्रतिपाद्यानीति विषयः, विषयस्य च प्रयोजनत्वमावश्यकमिति वृत्तसंशयच्छेदः प्रयोजनम्, तज्जिज्ञासुश्चाधिकारी, सम्बन्धरच प्रतिपाद्यप्रतिपादकभाव:, इति चतुर्णामप्यनुबन्धानां प्रकृतपद्येन सूचनमिति । आर्षी गायत्री - त्रिष्टुबादीनां वेदप्रसिद्धानां छन्दसामिह कथनाभावात् न सर्वेषां छन्दसामिह संग्रह इति न्यून