________________
सवृत्तिच्छन्दोऽनुशासनप्रद्योते
[अ० १ सू० १. ] परिगृहीतत्वं व्यज्यते, तेन चास्मिन्नपि वक्ष्यमाणे छन्दोऽनुशासने सोत्साहा प्रवृत्तिरित्यपि प्रतीयते । शब्दाश्च काव्यानि चेति शब्द - काव्यानि तेषामनुशासनमिति विग्रहे द्वन्द्वान्ते श्रूयमाणस्यानुशासनपदस्य प्रत्येकमभिसम्बन्धात् शब्दानुशासनं काव्यानुशासनं चेति लभ्यते, तत्र शब्दानुशासनपदं व्याचष्टे - शब्दानामित्यादिना, केषां शब्दानामित्याह- नामाऽऽख्यातादिभेदानामिति - आदिपदेनोपसर्ग-निपातयोः सङ्ग्रहः । अनुशासनप्रकारमाह-प्रकृति-प्रत्ययादिविभागेनेति - प्रकृतिः - नाम - धात्वादिः प्रत्ययाः - स्यादयः, कृतः, तद्धिता:, स्त्रीप्रत्ययादयश्च; आदिपदेन आगमाऽऽदेश-विकरणादयः, तेषां विभागेनयथायथं विवेकेन, संस्कृत्येति क्रियापदमध्याहृत्य तदनुरोधेन हेतौ तृतीया । यदाह
.
"प्रकृतिप्रत्ययोपाधिनिपातादिविभागशः ।
पदान्वाख्यानकरणं शास्त्रं व्याकरणं विदुः " ॥ इति ।
काव्यानुशासनपदं व्याचष्टे - काव्यस्य चेत्यादिना - काव्यस्य कविप्रयोगविषयस्य शब्दस्यार्थस्य च गुणालङ्कारादिविवेचनेन गुणा:- माधुर्योज:प्रसादाः, अलङ्काराः- अनुप्रासादयः शब्दालङ्काराः, उपमादयश्चार्थालङ्काराः, आदिपदेन रस-भाव- तदाभास- नित्यानित्यदोषादयः, तेषां विवेचनं स्वरूपनिर्वचनपूर्वकं यथावद्वर्णनं, तेन परिचाय्येति क्रियापदाध्याहारः ।
अनुशासनपदं व्याचष्टे - पूर्वाचार्यशासनस्यानु इति, अयमाशयः नास्माभि: किमपि नूतनशास्त्रमेतद्विषये प्रवत्तितमपि तु पूर्वाचार्यशासनमनुसृत्यैव लोकोपकाराय सरलया पद्धत्या शासनं कृतमिति तदीयशासनपश्चाद्भावित्वेनेदमनुशासनमिति व्यवह्रियते इति । शासनशब्दस्यापि लोकप्रसिद्धार्थापेक्षयाऽर्थान्तरमाह - सन्दर्भ इति - सन्दर्भश्च पूर्वापरीभावेन संग्रन्थनम् । वक्तुर्विशेषणत्वसम्पत्यं बहुव्रीहिसमासविग्रहमाह - यस्य स सिद्धशब्द - काव्यानुशासन इति ।
ध्यात्वेति पदार्थान्तर्गतं ध्यानमिह किमित्याह- ध्यानं प्रणिधानम् इति । प्रणिधानं च विषयविशेषे मनस एकाग्रता, तदिह किस्वरूपेत्याह - तच्चेह मानसो नमस्कार इति - स्वावधिकोत्कृष्टत्वप्रकारकबोधानुकूलो व्यापार एव नमस्कारः, स च कायिक- वाचिक -मानसिकभेदात् त्रिविधः, कायिकः कर-शिरः