________________
सवृत्तिच्छन्दोऽनुशासनप्रद्योते
५
[अ० १, सू० १.]
टकमिति - प्रवचनरूपपुरुषस्याङ्गानीवाङ्गानि द्वादश अङ्गानि यस्य तद् द्वादशाङ्खं प्रवचनम्, यद्वा अङ्गशब्दस्य पात्रादिगणे वैकल्पिकपाठकल्पनात् द्वादशानामङ्गानां समाहार इति 'द्वादशाङ्गं द्वादशाङ्गी' इति रूपद्वयम् । अङ्गानि च द्वादशेमानि - १ आचाराङ्गम्, २ सूत्रकृताङ्गम्, ३ स्थानाङ्गम्, ४ समवायाङ्गम्, ५ भगवत्यङ्गम्, ६ ज्ञाताधर्मकथाङ्गम्, ७ उपासकदशाङ्ग म्, ८ अन्त कृद्दशाङ्गम्, ६ अनृत्तरौपपातिकाङ्गम् १० प्रश्नव्याकरणाङ्गम् ११ विपाकाङ्गम् १२ दृष्टिवादाङ्गमिति, तदेतत् द्वादशाङ्गं गणिपिटकमित्युच्यते गुणानां साधूनां वा गणो विद्यतेऽस्येति-गणी आचार्य:, गणिर्वा साङ्गप्रवचनाध्येता, तस्य पिटकमिव सर्वार्थरत्नाधारत्वाद् गणिपिटकम्, तन्नाम्ना द्वादशाङ्गी गणिपिटकमुच्यते । यथा- पिटके तृणकाष्ठादिनिर्मिते पात्रविशेषे सर्वाणि प्रयोजनीवस्तूनि संगृह्यन्ते तथाऽत्रापि ऐहिकामुष्मिकफलप्रदानामागमानां संग्रह इति पिटकसंज्ञा सार्थिका ।
शय:
अत्र शङ्कते - यद्यपि द्वादशाङ्गी सूत्रतो गणघरै निर्ममे इति - अग्रे समुदुधियमाणप्रमाणानुसारं द्वादशाङ्गीसूत्राणि गणधरैर्निमितानीति प्रमीयते, ततश्च न सा आर्हती वागिति तस्या आर्हतीत्वेन निर्देशोऽनुचित इति शङ्का, तत्राह - तथापि तदर्थस्य अर्हदुपदिष्टत्वादार्हतीति उच्यते इति, अयमासूत्राणां गणधरकर्तृकत्वेऽपि तेषामर्हदुपदिष्टार्थानुसारित्वादर्ह तामेव तत्कर्तृत्वं युज्यत इति सा वागार्हत्येवेति बोध्यम् । उक्तार्थ आगमप्रमाणमाहयदाह - "अत्थं भासइ अरहा सुत्तं गंथंति गणहरा निउणं" [ १-१ ] इति- अर्थं भाषते अर्हन् सूत्राणि ग्रन्थन्ति गणधरा निपुणम्" इति संस्कृतम् । तेषामाहं तत्वे युक्तयन्तरमाह - सूत्रमपि चाचिन्त्यात्प्रभावादेवेत्यादि, गणधरेषु न स्वतस्तादृशः प्रभावो येन तथाविधानि सर्वविषयव्यापीनि सूत्राणि ग्रथ्यन्ते स्म किन्तु अचिन्त्यमहिम्नामर्हतामुपदेशस्यैव स प्रभावो येन ते ता दृशसूत्राणां निर्माणे प्रभवो जाता:, तथा च यत्प्रभावप्रभवत्वं तेषां सूत्राणां तदीयत्वमेव तेषु व्यवहर्तव्यमिति तेषामार्हतत्वेनोल्लेखो न विरुद्ध इत्यर्थः ।
'सिद्धशब्द- काव्यानुशासनः' इति पदं व्याचष्टे - सिद्ध प्रतिष्ठां प्राप्तमित्यादिना, न केवलं भूतकृतिविषयत्वं सिद्धत्वमपि तु प्रतिष्ठात्वेन प्रतिष्ठा च शिष्टसम्प्रदायमान्यता, तथा च निर्माणोत्तरकालमेव उभयोरनुशासनयोः शिष्ट