________________
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० १, सू० १.] शरीरसन्निवेशप्रकारप्रदर्शकतया समुपकारकं, छन्दोऽनुशासनं छन्दसाम्-उक्तादीनां वृत्तानाम्, अनुशासनं-पिङ्गलाचार्यादिपरम्पराप्राप्तस्यार्थस्य सङ्ग्रथनम्, आरिप्समानः आरब्धुमिच्छन् प्राथमिककृतिविषयतामानिनीषुरिति यावत्, शाखकारः प्रकृतच्छन्दोऽनुशासनरचयिता आचार्यः श्रीहेमचन्द्रसूरिः, इष्टाघिकृतदेवतानमस्कारपूर्वकम् इष्टा-पूज्यत्वेनेच्छाविषयीभूता च सा अधिकृतस्य-प्रकृतस्य वाङ्गमयरूपस्य ग्रन्थस्य, देवता-अधिष्ठात्री देवी, तस्या नमस्कारः-स्वावधिकोत्कृष्टत्वप्रकारकबोधानुकूलमानसिककायिकोभयव्यापार विशेषकरशिरःसंयोगादिरूपः, पूर्वः-प्रथमकृतिविषयो यथा स्यात् तथा कृत्वा, उपक्रमते क्रममारभते प्रवर्तत इति यावत् ।
अयमाशयः- सर्वस्यामिधेयस्य वागधीनतया पूर्व वाचः संस्काराय शब्दानुशासनमुपदिष्टम्, तदनु तत्प्रयोगविषयस्य काव्यस्य स्वरूपं गुणालङ्कारादयश्च काव्यानुशासने समुपदिष्टाः, काव्यं च गद्य-पद्यात्मकत्वेन द्विविधमिति पद्यरूपस्य, बहुशो गद्यरूपस्यापि तस्य छन्दोबद्धतया छन्दांस्यपि तदङ्गभूतानीति निरूपणीयतां प्राप्तानि, तन्निरूपणस्य निर्विघ्नपरिसमाप्तिपूर्वकबहुतरप्रचाराय मङ्गलमाचरणीयमिति "आशीर्नमस्क्रिया वस्तुनिर्देशो वाऽपि मङ्गलम्" इत्युक्ततया आशिषोऽपि देवतादिप्रसादाशंसनरूपतया देवादिनमस्कारलभ्यत्वेन वाचः प्रसराय वागधिष्ठात्र्या देवताया एव पूज्यत्वेनेष्टतया प्रकृतविषयाधिकृतत्वेन तन्नमस्कारमेव पूर्वमाचर्य तदनु ग्रन्थ आरम्यत इति ।
वाचमित्यादि । “सिद्धशब्द-काव्यानुशासनः [अहं] आर्हती वाचं ध्यात्वा काव्योपयोगिनां छन्दसाम् अनुशासनम् वक्ष्ये" इत्यन्वयः । पदार्थनिर्वचनपूर्वकं वाक्याथं विवृणोति-अर्हद्भिः कृतेत्यादिना। अर्हद्भिरिति-"अर्ह पूजायाम्" चतुस्त्रिंशतमतिशयान् सुरासुरादिकृतपूजां वा अर्हन्तीति-अर्हन्तः "सुग्द्विषा-ऽ हः सत्रि-शत्रु-स्तुत्ये" [ सि० ५. २. २६. ] इति अतृश् प्रत्ययः, अरिहननात् रजोहननात् रहस्याभावाच्चेति वा-अर्हन्तः, पृषोदरादित्वात साधुः, तैरहद्भिः, तीर्थङ्कररित्यर्थः। कृता तत्त्वरूपेण गणधरादिभ्यः समुपदिष्टा -आर्हती "कृते" [ सि० हे० ६. १. १६२. ] इति सूत्रेण कृतार्थेऽणि विहिते मादिस्वरवृद्भौ स्त्रियामणन्तत्वात् डीप्रत्यये आर्हती इति सिध्यतीत्यर्थः, ताहशी या वाक् तामिति । का सा वाग् ? इत्याह-द्वादशाङ्ग गणिपि