________________
[अ० १, सू० १.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते
तवैव ताः पूर्वमहार्णवोडता, जगत्प्रमाणंजिनवाक्यविषाः ॥" [१-३] । इति सर्वमवदातम् । अनेन च श्लोकेन शब्द-काव्य-च्छन्दोऽनुशासनानामेककर्तृत्वमुक्तम् ॥ सू-१॥
अथ प्रथमोऽध्यायः । प्रद्योतः-स्वोपज्ञछन्दोऽनुशासनस्य वृत्तिमारिप्समानः शिष्टपरम्पराचारानुमितावश्यकर्तव्यताकं मङ्गलमाचरन् व्याख्यातृ-श्रोतृणामप्यनुषङ्गतो मङ्गलार्थ ग्रन्थादौ निबध्नाति कलिकालसर्वज्ञः सर्वतन्त्रस्वतन्त्रो भगवान् श्रीहेमचन्द्रसूरिराज:-'अहं' इति । इदं च पदं स्वयमेव व्याख्यातमाचार्येण स्वोपज्ञशब्दानुशासनस्य बृहद्वतो, तथाहि-'अहं'इत्येतदक्षरम् परमेश्वरस्य परमेष्ठिनो वाचकम्, सिद्धचक्रस्यादिबीजम्, सकलागमोपनिषद्भूतम्,अशेषविघ्नविघातनिघ्नम्, अखिलदृष्टादृष्टफलसङ्कल्पकल्पद्रुमोपमम्, आशास्त्राध्ययनाध्यापनावधि प्रणिधेयम्, इति । एतेनैतत्पदस्य स्वरुपा-भिधेय-तात्पर्याणि संक्षेपतो निरूपितानि, अक्षरमिति हि स्वरूपकथनम्, 'परमेश्वरस्य परमेष्ठिनो वाचकम्' इत्यभिधेयम्, सिद्धचक्रस्येत्यादि च तात्पर्यम् । 'अशेषविघ्नविघातनिघ्नम्' 'अखिलदृष्टादृष्ट फलसङ्कल्पकल्पद्रुमोपमम्' इति च विशेषणद्वयं प्रकृते तत्प्रणिधानस्य तदुल्लेखस्य च प्रयोजनस्फोरकम् । तथा च सकलविघ्नविघातपूर्वकं सङ्कल्पितग्रन्थसमाप्तितत्प्रचारादिदृष्टफलस्य, अध्येतृपरमपरातत्त्वज्ञानप्रयोजकतयाऽनुषङ्गतो जायमानपुण्योपचयरूपादृष्टफलस्य च कामनया परमरहस्यभूतस्यास्य प्रणिधानम्, शिष्या अप्येतत् कुर्युरिति शिक्षार्थ तदुल्लेखश्च कृत इति निगूढाशयः । 'अह" इत्यस्य ग्रन्थंघटकत्वमाश्रित्येदं व्याख्यानम् ॥ __ ग्रन्थादौ कृतस्य मङ्गलस्य पीठिकामारचयन् शब्दशास्त्राऽलङ्कारशास्त्ररचनानन्तरमस्य रचना मया कृतेति व्याख्यातृ-श्रोतृन् प्रति बोधयति-शब्दानुशासनविरचनानन्तरमित्यादिना, शब्दानामनुशासनस्य-सिद्धहेमशब्दानुशासननाम्ना प्रसिद्धस्य संस्कृत-प्राकृतव्याकरणशास्त्रस्य, विरचनं-ग्रन्थरूपेण प्रकाशनं तस्य अनन्तरम्- अव्यवहितोत्तरकालं, तत्फलभूतं तस्य-शब्दानुशासनस्य फलभूतं-प्रयोजनस्थानीयं, काव्यं कविकृतिविषयं गुणाऽलङ्कारादि, अनुशिष्य पूर्वाचार्यपरम्पराप्राप्तमार्गेणोपदिश्य, तदङ्गभूतं तस्य-काव्यस्य, अङ्गभूतं