SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० १, सू० १.] अथ प्रथमोऽध्यायः । अर्ह ।। शब्दानुशासनविरचनानन्तरं तत्फलभूतं काव्यमनुशिष्य तदङ्गभूतं छन्दोऽनुशासन मारिप्समानः शास्त्रकार इष्टाधिकृतदेवतानमस्कारपूर्वकमुपक्रमतेवाचं ध्यात्वाऽऽहंतीं सिद्धशब्द- काव्यानुशासनः । काव्योपयोगिनां वक्ष्ये, छन्दसामनुशासनम् ॥१॥ अर्हद्भिः कृता " कृते " [ सिद्धहे ० ३. ३. १६२. ] इत्यणि- आर्हती वाक् द्वादशाङ्गं गणिपिटकम् । यद्यपि द्वादशाङ्गी सूत्रतो गणधरैनिर्ममे, तथापि तदर्थस्यार्हदुपदिष्टत्वादार्हतीत्युच्यते । यदाह "अत्थं मासइ अरहा सुत्तं गंथंति गणहरा निउणं ।" [ १. १ ] ॥ इति । सूत्रमपि चाचिन्त्यार्ह त्प्रभावादेव गणधरैर्ग्रथ्यत इत्यार्हत्येव वागिति न विरोधः । सिद्धं प्रतिष्ठां प्राप्तं, शब्दानां - नामा -ऽऽख्यादिभेदानां प्रकृति-प्रत्ययादिविभागेन, काव्यस्य च गुणा - sऽलङ्कारादिविवेचनेन पूर्वाचार्य शासनस्यानु - पश्चात्, शासनं - सन्दर्भो यस्य स सिद्धशब्दकाव्यानुशासनः । ध्यानं - प्रणिधानम्, तच्चेह मानसो नमस्कारः । काव्योपयोगिनामिति - गद्यकाव्ये न छन्दसामुपयोग इत्यर्थात् पद्यं काव्यमिह गृह्यते, उपयोगः - साहायकं वृत्तसंशयच्छेदादिना, यदाह"छन्दोविचितेर्वृत्तसंशयच्छेदः" [१२] ॥ इदमभिधेयप्रयोजनम् । काव्योपयोगाभावाच्च न वैदिकानि छन्दांसीह लक्षयिष्यन्ते । छन्दसामिति - कर्मणि षष्ठी, चन्दनादाह, लादनात् छन्दांसि वर्ण-मात्रानियमितानि वृत्तानि तेषाम् । अनुशिष्यतेऽनेनेति - अनुशासनं शास्त्रम् । वक्ष्य इति - तृतीयत्रिकप्रयोगाद् ' अहम् " इति लभ्यते । ननु भवतु 'वाचं ध्यात्वार्हतीं' इतीष्टदेवतास्तुतिः, अधिकृतदेवतास्तुतिस्तु कथमियम् ? नह्यधिकृतानि छन्दांसि अर्हत्प्रणीतानि; मैवं वोचः, न हि सूक्तं किश्विदर्हतामुपदेशमन्तरेण जगत्यस्ति, यत् सिद्धसेनः "सुनिश्चितं नः परतन्त्रयुक्तिषु, स्फुरन्ति याः काश्चन सूक्तसम्पदः ।
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy