________________
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू०-४०१ ] ल [1]त[1] [1]स्त[1] न [1] में [1] ड [1] ल [1] गा [1] ढ [1] नि [1] पी [1] ड [0] न [1] कं [1] ट [1] कि [1] ता. [1] ङ्गः [1] इति लक्षणसमन्वयः । पूर्ववत् एकै कगणवृद्धिमतिदिशति- एवमेकैकभगणवृद्धयाऽन्यदप्युदाहार्यमिति । अन्तिम गुरुद्वयात्पूर्वमेकैकं भगणं वर्घयि त्वा यावदेकोन सहस्राक्षरपादं भुजङ्गविलास दण्डका उदाहार्या इतिभावः । अ० २, सू० ४००।१।।
नाभ्यां पञ्चमात्रैरुत्कलिका ॥४०१।। द्वाम्यां नगणाभ्यां परैर्यथेष्टं पञ्चमात्रैर्गणरुत्कलिका नाम । यथा- स्मितबकुल शिरीगकङ्कल्लिकको नय्यप्रसूनावलीपरिमलविलोलरोलम्व- रोलाकुलीकृताखिलचालीलावनो, मदुमलयसमीर- शैलूषशिक्षाक्रमानुगुणविविधाङ्गहारप्रयोगप्रपञ्चप्रवल्गलतानर्तकीरम्यरङ्गावनिः ! अभिनवसहकारकोरकास्वादमाद्यत्- पिकयुवतिपञ्चमोच्चारमन्त्रास्त्रसाधितविषममानिनीमानदुर्गः समन्तादयं, कमिव सपदि संततोत्कलिकमिह नो विधत्ते जनं हेलया निजिताशेषलोकस्य देवस्य कामस्य निर्याजबन्धुर्मधुः ॥४०१.१॥ एवमेककपञ्चमात्रवृद्धचान्यदप्युदाहाय॑म् ।।४०१:१॥ दण्डकप्रकरणम् । :वर्णगणात्मकाद् दण्डकानुक्त्वा वर्णमालोभयगणसंयुक्तान् दण्डकान् वर्णयति- नाभ्यां पञ्चमात्रैरुत्कलिकेति । विवृणोति- द्वाभ्यां नगणाभ्यां परैर्यथेष्टं पञ्चमात्रगणरुत्कलिकानामेति । आदौ नगणद्वयं विन्यस्य ततः परं यथेष्टं पञ्चमात्रगणः त्रिवर्णतः पञ्चवर्णात्मकान्तः, न्यस्तः चेत् स उत्कलिकानामकोदण्डक इत्यर्थः । तत्र तगणद्वयं द्वादश पञ्चमात्र गणा इत्येवं रूपं दण्ड कमुदाहरति- यथा- स्मितबकुलेति । अयम् अचिर प्रवृत्तः हेलया अनायामेन निजिताशेषलोकस्य विजितसमस्त भुवनस्य : कामस्य देवस्य कामदेवस्य निर्व्याजबन्धुः अकपटमुहृत्- मधुः वसन्तः इह अस्मिन् समये समन्तात् सर्वतः कमिवजनं सपदि शीघ्र सन्ततोत्कलिकम् विस्तृतीत्सुक्यम् नो विधत्ते अपितु सर्वं जनं विधत्त एवः। मधुमेव विशिनष्टि त्रिभिः पादः- स्मितबकुलशिरीषकङ्कल्लिककोलनव्यप्रसूनावलीपरिमल विलोल- रोलम्बरोलाकुलीकृताखिल चारुलीलावनः स्मितानां विक