________________
[अ० २, सू० - ४००. ] सवृत्तिच्छन्दोऽनुशासन प्रद्योते भा गौ भुजङ्गविलासः ||४००|
यत्र यथेष्टं भगणाः प्रयुज्यन्तेऽन्ते च गुरुद्वयं स भुजंगविलासः । थथा - पीनघनोन्नतव तविशालतरस्तन मण्डल गाढनिपीडन कष्ट किताङ्गः, कोमलबाहूमृणाललता दृढवेष्टितकण्ठतटः परिचुम्बनविभ्रमपात्रम् । वासगृहे बहलोच्छ्वसिता गुरुधूमलतानिचिते शयने मृदुनि क्षणदायां, यो दयितां रमयत्यतिसंभ्रममानजुषं स भुजङ्गविलासधुरामिह धत्ते ||४००१ ।। एवमेकैक भगणवृद्धयायदप्युदाहार्यम् ॥ ४०० १ ॥
३६५
तगणवद् भगणेनापि गुरुद्वयान्तेन पादेन दण्डकं वर्णयति भा गौ भुजङ्गविलास इति । विवृणोति - यत्र यथेष्टं भगणाः प्रयुज्यन्तेऽन्ते च गुरुद्वयं स भुजङ्ग विलास इति यथेष्टं स्वेच्छानुरूपं - नवादिमारभ्य एकोनसहस्राक्षरपादपूर्ति यावत् भगणा अन्ते द्वयेन युक्ता यदि न्यस्यन्ते तर्हि स भुजङ्गबिलासनामा दण्डक इत्यर्थः । तथा च नव भगणाः गुरुद्वयम् - इति प्रथमोपस्थितम् - ' SH. SH. SIM SII. S. SI. 511 511 511. ss' इतीहशंरक्षरः कृतपाद दण्डकमुदाहरति- यथा- पोनघनोन्नतेति । पीनघनोन्नत वृत्तविशालतरस्तनमण्डलगाढ निपीडनकण्टकिताङ्गः पीनो स्थूलो धनी कठोरी उन्नती उत्तुङ्गी वृत्तौ मण्डलाकारी ( एवं कृत्वा) विशालतरी अति त्रिपुलो यो स्तनी कुची तयोर्मण्डलस्य समूहस्य गाढमत्यन्तं निपीडनेन मर्दनेन कण्टकितम्र रोमाञ्चितम् अङ्गं शरीरं यस्य तादृशः, कोमलबाहुमृणाललता दृढ़परिवेष्टित कण्ठतटः कोमलो मृदुलो बाहू एव मृणाललता बिसवल्ली तया दृढं गाढं परिवेष्टितः कण्ठतटः यस्य तादृशः परिचुम्बनविभ्रमपात्रम् परिचुम्बनस्य यो विभ्रमः विलासः तस्य पात्रम् भाजनम् यः जनः क्षणदायां रात्रौ वासगृहे शयनागारे मृदुनि कोमले वहलोच्छ्वसिता गुरुधूमलतानिचिते बहलमत्यधिकं यथा स्यात्तथा उदवसितया उद्भूयमानया अगुरुधूमलतया अगुरोः सुगन्धिकाष्ठस्य घूमलतया धूमपङ्क्तया निचिते व्याप्तं शयने शय्यायाम् अतिसम्भ्रममानजुषं अतिशयितं सम्भ्रमं साध्वसं मानञ्च जुषते तच्छीलाम् दयितां कान्ता रमयति क्रीडयति स जनः भुजङ्गविलासधुराम् भुजङ्गानां विटानां यो विलासः विलसनरीतिः तस्य धुराम् अग्रभागं धत्तं धारयति । पी [5] न [1] ध [1] नो [5] न [1] त [1] वृ [1] त [1] वि [1] शा [i]