________________
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू०-३६६.] पुनरन्यथा दण्डकं वर्णयति- ता गौ कामबाण: इति । विवृणोति- यत्र यथेष्ट तगणा अन्ते गुरुद्वयं च प्रयुज्यते स कामबाणः इति । यथेष्टतगणेभ्यः परेऽन्ते गुरुद्वयमिति यत्र पादबन्धः स कामबाणनामा दण्डक इत्यर्थः । तत्र षड्विंशतेरधिकवर्णकृतपादत्वे एव दण्डकः, तादृशी संख्या च नवभिस्तगणान गुरुद्वयं विना नसम्भवतीति तादृशविन्यासे ऊनत्रिंशद्वर्णकृतपादस्यव प्रथम मुपस्थितिरिति- नवतगणाःगुरुद्वयं 'ssi. ssi. ssi. ssi. ssI. SS1. SsI. ssi. ss1. ss.' इतीहशैरक्षरैः कृतपाद: कामबाणनामा दण्डक उदाह्रियते यथा- त्वद्विप्रयोग इति । हे कठोराशय ! कठोरः निर्दय आशयः हृदयभावो यस्य सः, तत्सम्बोधनम्, नवे सद्यः समुपस्थिते त्वद्विप्रयोगे तवविरहे बालकायाः मुग्धाया मनोभूशरले शशान्त्यै मनोभूशरैः कामबाणः (कृतस्य) क्ल शस्य शान्त्य उपशमाय सखीभिः सहचरीभिः प्रयत्नात् प्रयासात्- समन्तात् सर्वतः पाथोजिनीपल्लवैः कमलिनीदलैः चारु सुन्दरं तल्यं शयनं कल्पित रचितम्, नूतन नवीनमृणालैः बिसः हारयष्टिः माला समासूत्रिता गुम्फिता, कोमलैः मृदुलैः रम्भादलः कदलीपत्रः ताल वृन्तं व्यजनं निर्मितम् विरचितम्ः चान्दनेन चन्दन सम्बन्धिना द्रवेण रसेन अस्या बालायाः अङ्ग
रागः शरीरशोभा कृतः विहितः किल निश्चयेन, एतत् पूर्वोक्तम् समग्रम् सकलं वस्तु प्रत्युत वैपरीत्येन तीव्रव्यथां दुःसहपीडां वितन्वत् विस्तारयत् उपम् घोरं कामबाणत्वम् मदनशरत्वम् अशिश्रियत्, प्राप्तवत् । ईदृशीबालां विहाय दूरं गतो यतोऽतएव कठोराशय स्त्वमसि, तत्तस्या अवस्थामिमां ज्ञात्वा मृदुलाशयो भवेत्याकूतम् । त्वद् [s] वि [s] प्र [1] यो [s] गे [s] न [1] वे [s] वा [s] लि [1] का [5] या [5] म [1] नो [5] भू [5] श [1] र [5] क्लै [5] श [1] शा [5] न्त्य [s] प्र [1] य [5] लात् [s] स [1] खी [s] भिः [5] स [1] म [s] न्ताः [5] इतिलक्षणसमन्वयः । अत्रापि यथेष्टवृद्धिमुदाहत्तुमतिदिशति- एवमेकंकतगणवृद्धघाऽन्यदप्युवा. हार्यम्- इति । यथा नवभिस्तगणरन्ते गुरुद्वयसहितः कृतपादो दण्डकोऽयमुदाहृतस्तथा दशादिसंख्ययावधितस्तगणैरन्ते गुरुद्वयेन, यावदेकोन सहस्राक्षरपादं यथेच्छमुदाहार्यमिति भावः । अ० २, सू० ३६६।१ ।।