________________
[अ० २, सू०-४०१.] सवृत्तिच्छन्दोऽनुशासनप्रमौते सितानां बकुलाः शिरीषाः, कङ्कल्लयः, कक्कोला:- स्वस्वनाग्नाख्याताः पुष्पवृक्षाः तेषां नव्यप्रसूनावल्या: नूतनपुष्पमायाया परिमलेन सौरभेण विलोलाः इतस्ततः परिभ्रमन्तो ये रोलम्बाः भ्रमरा तेषां रोलैः कलकलैः आकूलीकृतं पर्याकुलीभूतम् अखिलं समग्रं चारुसुन्दर लीलावन क्रीडोद्यानं येन स:, मृदुमलयसमीरशैलूषशिक्षाक्रमानुगुण विविधाहारप्रयोगप्रपञ्चप्रवल्गलतानर्तकीरम्यरङ्गावनिः, मृदुः मन्दशीत: मलयसमीरो दक्षिणवायुरेव शैलूपो भरतः- नाट्योपदेष्टा- तस्य शिक्षाक्रमस्य उपदेशरीते: अनुगुणेन अनुसारिणा विविधाङ्गहारस्य बहुविधशरीरचेष्टायाः प्रयोगस्य व्यवहारस्य प्रपश्चन विस्तारेण प्रवल्गन्ती परिचलन्ती या लतानर्तकी वल्लीरूपा नृत्यशिल्पिनी तस्याः रम्या सुन्दरा लीलावनिः क्रीडा मित: अभिनवसहकारकोरकास्वाद माद्यत्-पिकयुवतिपञ्चमोच्चारमन्त्रास्त्रसाधितविषममानिनीमानदुर्गः अभिनवाः नूतनानां सहका-कोरकाणां आम्रमुकुलानाम् आस्वादेन रसनेन माद्यन्त्याः जातमदाया: पिकयुवते: कोकिलतरुण्या पञ्चमोच्चारमन्त्रस्त्रेण पञ्चमस्वर मानरूपमन्त्रयुक्तेन रक्षासाधनेनायुधेन माधित: वशीकृतः विषमः वटिनः मानिन्या मानरूपः दुर्ग: येन तादृशः : स्मि [1] त [1] ब [1], कु [1] ल [1] शि [1], री [1] प [1] क [1]१, के [1] ल्लि [i] क [1] २, को [1] ल [1] न [1] ३, व्य [1] प्र[1] मू [1] ४, ना [1] व [0] ली [0] ५, प [1] रि [1] म [1] ल [:] वि [1] ३, लो [1] ल [1] रो [1]७, लं [1] ब [1] रो [1)८, ला [0] कु [1] ली [0]S, कृ [1] ता [1] खि [1] ल [1] १०, चा [1] र [1] ली [1]११, ला [1] व [1] नः [1] १२, इतिलक्षण समन्वयः । यथेष्टमिति सूचितार्थमाह- एवमेकैकपश्चमात्रवृद्धयाऽन्यदप्युदाहायमिति । नगणद्वयात्परतो द्वादशभिः पञ्चमात्रगणैर्यथेदमुदाहृतं तथा एकेक पश्चमात्रगणवृद्धया न्ये पि उत्कलिकानामानो दण्डका उदाहार्या: यावदेकोन सहस्राक्षरपादम् इस्यर्थः । यद्यपि मात्रागणवृद्धावक्षरसंख्या न नियता तथापि-यावदेकोनसहस्राक्षरः पाद इति पूर्वमुक्ततया मात्रागणवृद्धावपि स नियमः स्वीकार्य एव, तदपवादस्यानुक्तत्वात् ।।इति दण्डक प्रकरणम्।।
इति छन्दोनुशासन व्याख्यां द्वितीयोऽध्यायः ।।