________________
३६२
सवृत्तिच्छन्दोऽनुशासनप्रद्योते
[अ०२, सू० - ३६८. ]
युक्तम् अलसम् आलस्यपूर्णम् भ्रमत् घूर्णमानं सुतारं शोभन कनीनिकावत् दीर्घं विशालं यत् नेत्रपत्रम् नयनदलं तेन सुन्दरे शोभिते अमन्दकुन्दकुड्मलाग्र कोमलल्लसतीद्धशुद्धदन्तपङ्क्तिकेसरालये अमन्दानि उत्तमानि कुन्दकुड्मलाग्राणि माध्यपुष्पकलिकाग्रभागाः तद्वत् कोमलानि मृदुलानि उल्ल सन्ति द्युतीद्धानि कान्तिसमृद्धानि शुद्धानि च दन्तपति.केसराणि दशनमालारूप किञ्जल्काः तेषाम् आलये निधाने प्रियामुखाम्बुजे वल्लभावदनप मधु पुष्परस : मद्यं वा तदिव अधरं अधरोष्ठं चिराय बहुकालं यावत् पिवन चुम्बयन् अनारतं सततं अनङ्गशेखरः कामपरतन्त्रः कामिशिरोमणिर्वा भवेत् स्यात् । वि [1] शा [5] ल [1] भा [s] ल [1] लो [s] ल [1] धू [1] र्ण [1] मा [s] न [1] क [5] ज [1] लो [5] ज्ज्व [1] ला [5] ल [1] क [S] द्वि [1] रे [s] फ [1] मा [5] लि [1] को [s] प [1] शो [S].भि [i] ते [S] इति लक्षणसमन्वयः । अत्रापि यथेच्छं लघुगुरूवृद्धिकृतान्मेदानुदाहर्तुमाह एवं लघुगुरुवृद्धयाऽन्यदप्युदाहार्यमिति ॥ अ० २, सू० ३६७।१ ।।
ग्लावशोक पुष्पमञ्जरी ||३९८ ॥
यत्र यथेष्टं निरन्तरौ गुरुलघु प्रयुज्येते सोऽशोकपुष्पमञ्जरीनामा दण्डकः । यथा - अस्तमाश्रितस्तुषार भारपातदग्ध सर्व पुष्प जाति संचयो हिमर्तुरा, सर्वतो वसन्तनामधेय एष जृम्भते प्रियः सखा तवेह देव पुष्पचाप । विष्टपत्रयीपराजयेच्छ्या गृहाण नूतनान् शिलीमुखानखण्डितैकवीर, चारुचतकोरकानशोकपुष्पमञ्जरीर्नवाः स्मितानि केसराणि पाटलाश्च ॥ ३६८.१ ।। एवं गुरुलघुवृद्धघान्यदप्युदाहार्यम् || ३६८.१ ।।
लघुगुरू परम्परारूपं दण्डकमुदाहृत्य गुरुलघुपरम्परात्मकं तदाह ग्लावशोकपुष्पमञ्जरीति । विवृणोति यत्र यथेष्टं निरन्तरौ गुरुलघु प्रयुज्येते सोऽशोक पुष्पमञ्जरीनामा दण्डक इति । तथा च गुरोः पश्चाल्लघुः इत्येवं क्रमेण न्यूनतश्चतुर्दश वर्णयुग्मं यावदेकोन सहस्राक्षरपादं यस्य पादे प्रयुज्यते सः ‘51. 51. 51. 51. 51. St. SI. SI. S. SI. SI. 51. 51. 51.' इत्येवं रूपर्वर्णैः कृतपादः, अशोकपुष्पमञ्जरीनामा दण्डक इत्यर्थः । उदाहरति- यथा - अस्तमा
:/