________________
[अ० २ सू०-३६७.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते क्रीडाप्रसङ्गेन यः बूत्कारः कटुरव्यक्तश्वशब्द: तेन घोरं भयंकरं जज्ञे जातम् । तव रिपव: पुरं विहाया न्यत्र गता इति तत्रारण्यतां गते आरण्यकानां पशूनामीदृशानि चेष्टितानि अभूवन्निति भावः । क्व [1] चित् [5] पं [5] क [1] शं [s] का [5] भ्र [1] मत् [5] को [s] ल [1] दं [s] ष्ट्रा [5] स [1] मु [5] ल्ले [s] ख [1] नि [5] पि [5] ष्ट [1] वे [s] क्ष्मा [5] न्त [1] का [1] चा [s] व [1] नी [s] कं [s] इति लक्षणसमन्वयः । अत्रापि पूर्ववदेकैकगणवृद्धयादण्डकानुदाहर्तुमतिदिशति- एवमेकैकयगणवृद्धयान्यदप्युदाहायमिति ॥ अ० २, यू० ३६६।१॥
ल्गावनङ्गशेखरः ॥३९७! यत्र यथेष्टं निरन्तरी लघुगुरू प्रयुज्यते सोऽनङ्गशेखरः । यथा-विशालभाललोलघूर्णमानकज्जलोज्ज्वलालकद्विरेफमालिकोपशोभिते, विबुद्धहावमुग्धचारुपक्ष्मलालसभ्रमत्सुतारदीर्घनेत्रपत्रसुन्दरे । अमन्दकुन्दकुङ्मलाग्रकोमलोलसद्युतीद्ध ददन्तपङ्क्तिकेसरालये, प्रियामुखाम्बुजेऽघरं चिराय मध्विवापिबन्ननारतं भवेदनङ्गशेखरः ॥३६५.१) एवं लघुगुरुवृद्ध धान्यदप्युदाहायम ॥३६७.१॥
___ अथ प्रकारान्तरेण दण्डकमाह 'ल्गावनङ्गशेखर' इति । विवृणोतियत्र- यथेष्ठं निरन्तरौ लघुगुरू प्रयुज्येते सोनङ्गशेखर इति । यत्र पादे यथेष्टं (षड्विंशति संख्यातोऽधिकसंख्यापूरणयोग्यं-) यथेच्छं निरन्तरौ अश्यवहिती लघुगुरू लघोरन्तरं गुरुः, इत्येवं क्रमेणं प्रयुज्यते स अनङ्गशेखरनामादण्डक इत्यर्थः। तत्र प्रथमोपस्थित चतुर्दशलघुगुरु युग्मविन्यस्तपादः 's. 15. Is. Is. Is. 15. Is. Is. IS. 15. IS. 15. 15. 15.' इत्येवं रूपैः वर्णैः कृतो दण्डक उदाह्रियते- यथा- विशाल भालेति । विशालभाललोलधूर्णमानकज्जलोज्ज्वलालकद्विरेफमालिकोपशोभिते विशाले विस्तृते भाले अलिके लोलाः चञ्चलाः धूर्णमाना भ्रमन्त: कज्जलवत् अञ्जनवत् उज्जलाः आस्वन्तः अलकाः कुन्तला एव द्विरेफमालिका भ्रमरपङ्क्तिः तया उपशोभिते सुन्दरे विशुद्धहावमुग्धचारुपमलालसभ्रमत्सुतारदीर्घनेत्रपत्र सुन्दरे विशुहावेन निर्दुष्टशृङ्गारचेष्टया मुग्धं मनोहरं चारु सुन्दरं पक्ष्मलम् लोम