________________
सवृत्तिच्छन्दोऽनुशासनप्रद्योते
[अ०२, सू० - ३६६.]
दप्युदाहामिति । दशादि संख्ययासगणान्विन्यस्यापि कुमुमास्तरणो विज्ञेय इति भावः ॥ अ० २, सू० ३६५।१ ।।
३६०
याः सिंहविक्रीडः ॥३९६ ॥
यत्र यथेष्टं यगणाः प्रयुज्यन्ते स सिंहविक्रीडः । यथा - कचित्पङ्कशङ्काभ्रमत्कोलदंष्ट्रासमुल्लेखनिष्पिष्ट वेश्मान्तकाचावनीकं कचिन्नालिकेरीफलास्फालनव्यग्रशाखामृगश्रेणिपर्याकुलोद्यानभागम् । कचित्तप्तमज्जन्महासैरिभोहामशङ्का तच्छलद्दीधिकावारिसान्द्रं कचित् सिहविक्रीडबूत्कारघोरं चुलुक्येन्द्र जज्ञे पुरं त्वद्विपूणामिदानीम् ॥३६६.१॥ एवमेकैकयगणवृद्ध्यान्यददाहार्यम् ।।३६६.१।।
केवलेन यगणेन कृतं दण्डकं वर्णयति याः सिंहविक्रीड इति । विवृणोतियत्र यथेष्टं यगणाः प्रयुज्यन्ते स सिंहविक्रीडः इति । केवलं स्वेच्छया विन्यस्तः यगणैरेव निर्मितपाद: सिंह विक्रीडनामा दण्डक इत्यर्थः । तत्र नव यगण: 'Iss. Iss. Iss. Iss. iss iss Iss ss. iss ' इतीदृशैः सप्तविंशत्या - वर्णैः कृताः पादा यस्य स सिंह विक्रीडी दण्डनो यथा- क्वचित्यङ्कशङ्केति । हे चुलुक्येन्द्र ! चुलुक्यवंश्यनृप ! इदानोम् सम्प्रति त्वद्विपूणां तव शत्रूणां पुरं नगरं - क्वचित् कस्मिश्चित्स्थाने पङ्कशङ्गा भ्रमत्कोलदंष्ट्रासमुल्लेखनिष्पिष्टं वेश्मान्तकाचावनीकम् पङ्कशङ्कया कर्दमभ्रमेण भ्रमतां चञ्चूर्यमाणानां कोलानां दंष्ट्रया समुल्लेखेन निष्पिष्टा चूर्णिता वेश्मान्तस्य गृहप्रान्तस्य काचावनी काचनिर्मिता भूः यत्र तादृशं क्वचित् अन्यत्र स्थाने नगिकेलीकलास्फालनव्यग्रशाखामृगश्रेणिपर्याकुलोद्यानभागम् नारिकैरीफलस्य आस्फालने त्रोटन र्थमान्दोलने व्यग्रया पर्यस्तया शाखामृग श्रेव्या वानरसमूहेन पर्याकुलम् परित आकीर्ण उद्यानभागः उपवनप्रदेशो यत्र तादृशम्, क्वचित्कुत्रचित्स्थाने तप्तमज्जन्महासैरिभोद्दामशङ्गाग्रघातोच्छलद्दीर्घिकावा
1
रिसान्द्रम् तप्ताः रविकर प्रदग्धाः अत एव मज्जन्तः पयसि प्रविष्टा ये महासैरिभाः महान्तो वन महिषाः तेषाम् उद्दामैः विशृङ्खलैः शृङ्गाग्रघातैः विषाण कोटिताडनैः उच्छलता उपरि गच्छता वारिणा जलेन सान्द्रम् क्लिन्नम्, क्वचित् - एकत्र प्रदेशे सिंहविक्रीडबूत्कारघोरं सिंहस्य विक्रीडेन विविध