________________
[अ० २, सू० - ३६५ . ] सवृत्तिच्छन्दोऽनुशासन प्रद्योते
साः कुसुमास्तरणः ||३९५||
यथेष्टं गणा यत्र प्रयुज्यन्ते स कुसुमास्तरणः । यथा - सुभग त्वयि दूरमुपेयुषि सा न कदाचिदुपैति विलासगृहाभिमुखं विकचान्जबने न ददाति दृशं शिशिरागुरुचन्दनपङ्कमपाकुरुते । न च हृष्यति चाटुकरीषु सखीष्वपि पक्कपलाण्डुनिभं वहते वदनं कुसुमास्तरणानि पिनष्टितरां परिमुह्यति शीतलशीतमयूखकरैः ॥ ३९५.१ ।। एवमेकैकसगण वृद्ध धान्यवप्युदाहार्यम् ।। ३६५.१ ।।
३५६
अथ केवल सगणरचितं दण्डकमाह- साः कुसुमास्तरण इति । विवृणोति - यथेष्टं सगणा यत्र प्रयुज्यन्ते सकुसुमास्तरण इति । यथेष्ट - मित्युक्त्या नियमाभावेऽपि प्रथमोपेस्थितं नवसगणात्मकेव - ॥5. ॥5. . ।।5. ।।5. ।।5. 115. ।।5. 115. ' इतीदृशैः सप्तविंशत्या अक्षरैः कृतं कुसुमास्तरणनामकं दण्डकमुदाहरति- यथा - सुभग त्वयीति । हे सुभग सुन्दर, सौभाग्यशालिन्नितिवा त्वयि भवति दूरम् विप्रकृष्टदेशम् उपेयुषि गतवति सति सा तव प्रिया कदाचित् कस्मिन्नपि समये विलास गृहाभिमुखं क्रीडागार - संमुखत् - न उपैति न गच्छति, विकचाब्जवने प्रफुल्लकमलकाबने दृशं दृष्टि न ददाति न क्षिपति शिशिरागुरुचन्दनपङ्कम् शिशिरं शीतम् - अगुरो | चन्दनस्य च पङ्कम्- कर्दमम् अपाकुरुते दूरं क्षिपति, सखीषु सहचरीषु; चाटुकरीषु प्रियवादिनीषु अपि न हृष्यति न प्रसीदति, पक्वपलाण्डु निर्भ पक्कः कालकृतपरिपाकः पलाण्डुः कन्दविशेषः स्वनाम्ना ख्यातः तन्निभं तत् सदृशं - वदनं मुखं धत्ते धार-ति, कुसुमास्तरणापि पुष्परचितशय्याः पिनष्टितराम (अनिद्रता गात्र परिवर्तः) अतिशयेन मर्दयति, शीतलशीतमयूरवकर : शीतलः शीतभयूखस्य चन्द्रस्य करें: किरण: परिमुह्यति चेतनां त्यजति । प्रियविरहतप्तया न क्वापि सुखमनु भूयत इति भावः । सु [1] भ [1] ग [5], त्व [1] यि [1] व [s], र [1] मु [1] पे [s], यु [1] षि [ 1 ] सा [5], न [1] क [1] दा [5], चि [1] दु [1] पै [s], ति [1] वि [1] ला [5], स [1] गृ [1] हा [5], भि [1] मु [1] खं [s] इति लक्षणसमन्वयः । अत्रापि यथेष्टमित्युक्त्या स्वेच्छया - एकोनसहस्रक्षपादं यावत् सगणकल्पनाऽनुमतेत्याह एवमेकैकस गणवृद्धघाऽन्य