________________
३५८
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू०-३६४.] अथकंकगणनिमितान् दण्डकान् वर्णयितुमुपक्रममाणः केवलरगण निर्मितदण्डकमाह- यथेष्टं रा मत्तमातङ्ग इति । विवृणोति- स्वेच्छयायत्र रगणाः प्रयुज्यन्ते समत्तमातङ्ग इति । केवलं रगणानामेव यत्र नवादिसंख्याक्रमेणविन्यास: स मत्तमातङ्गनामा दण्डक इत्यर्थः । ननु यथेष्टमिति पदं पूर्वतः समनुवृत्तमेवेति तस्येह सूत्रे पुनः कथनं किमर्थमिति चेदवाह- पुनर्यथेष्टग्रहण लूगिभ्यामित्यस्य निवृत्त्यर्थमिति । पूर्वसूत्रे यथेष्टमिति पदमनुवृत्तं लूगिम्यामित्यनेन सम्बद्धम्, अत्र तन्मात्रानुवृत्तिर्न सम्भवति, किन्तु तेन सम्बद्धस्यैवानुवृत्तिः स्यात् साच नेष्टेति सर्वथा पूर्वसूत्रानपेक्षत्वबोधनाय यथेष्टमिति पदमिहावश्यकमिति भावः। अथ प्रथमं नवभी रगणः मत्तमातङ्गम् 'Sis. SIS. SIS. sis. SIS SIS. SIS. SIS. Is.' इतीदृशैः सप्तविंशत्या अक्षरः कृतमुदाहरति- यथा- पुष्पचापस्येति । भङगुरभ्रविलासः कुटिलकटाक्षविक्षेपः पुष्पचापस्य कामस्य चापश्रियं धनुःशोभा बिभ्रती धारयन्ती, स्मितस्मेरकस्तूरिकाकेलिपत्रावलीभङ्गिविभ्राजिगण्डस्थलेन स्मितेन ईषद्धासेन स्मेरेण विकसितेन- कस्तूरिकायाः केलिपत्रावलीभङ्गया, क्रीडा कल्पित- पत्रलतारचनया विभाजितेन गण्डस्थलेन कपोलफलकेन तदा सर्वदा इन्दुबिम्बानुकारं चन्द्रमण्डलानुकृति कुर्वती विदधती (तथा) चारुवक्रीलिगभः सुन्दरकुटिलार्थभितः विदधैः चातुर्यपूर्णः वचोभिः वाक्यः अमन्दम् अधिकम् पीयूष निष्यन्दम् अमृतप्रवाहं च आतन्वती कुर्वाणा मत्तमातङ्गलोलागतिः मत्तस्य मदशालिनो मातङ्गस्य गजस्य लीलागतिः सविलासगमनम् इव लीलागतिः यस्याः सा, काश्चनच्छेदगौरी सुवर्णखण्डवत् गौरवर्णा प्रिया वल्लभा कस्य जनस्य मुदं हर्ष न आविष्करोति प्रकटयति अपितु सर्वस्थैव प्रकटयति भ्रूभङ्गया कामचापानुकारिणी, कस्तूरी रचना शोभितेन सस्मित कपोलेन सकलङ्कचन्द्रमन्डनानुकारिणी, वक्रोक्तिसहित चतुरवचनविन्यासकुशला, गजगामिनी कनकवर्णा च वल्लभा सर्वस्यैव जनस्यानन्ददायिनीति भावः ॥ इत्थं नवभीरगणैः कृतं मत्तमातङ्गमुदाहृत्य दशादि रगणकृतानपि मत्तमातङ्गदण्डकानुदाहर्तुमतिदिशति- एवमेकैकरगणवृद्धयाऽन्यदप्युदाहार्यमिति ॥ अ० २, सू० ३६४।१॥