________________
[अ० २, सू०-३६४.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते
३५७ मुदाहरति- यथा- अविरलमदेति हे महीपालधुर्य नृपाग्रगण्य ! युगान्तानिले प्रलयसमयवायौ इव विपुलप्राणे महाबलवति त्वयि भवति संयुगान्तः संग्राममध्यं प्रोज्जिहाने प्रयाते सति महामेघमालाः विपुलपयोदपङ्कय इव- अविरलमदपाथो निझरप्लावितक्षोणिपीठाः अविरल: निरन्तरं स्रवन् मदः एव पाथः जलं तस्य निर्भरेण प्रपातेन प्लावितम् सम्यगाच्छादितं क्षोणिपीठं पृथ्वीतलं यः ते, महाशैलशृङ्गायमाणाः महान्ति विपुलानि शैलश ङ्गाणि पर्वतशिखराणि इव आचरन्तः कपिशरुचिलसद्दन्ताशनिद्योतरौद्राः कपिशरुचयः श्वेतपीतवर्णा: लसन्तः शोभमाना दन्ता एव अशनयः वज्राणि तेषां द्योतेन प्रकाशेन रौद्राः भयङ्कराः महागजितत्रासिताशेषलोकाः महागजितेन बिपुलनादेन त्रासिताः भीषिता अशेषलोकाः सर्वे मनुष्या यैः तादृशाः रिपुनरपतिमातङ्गाः शत्रुराजगजाः हे देव नृप क्षणादेव शीघ्रमेव प्रणाशं पलायनं ययुः प्रापुः । प्रलयकालिके बलवति वायौ वाति यथा मेघमाला प्रणश्यति, तथा बलवतित्वयि संग्नामभूमि प्राप्ते सति रिपुबलस्था महागजा अपि पलायिता इति भावः । अ [1] वि [1] र [] ल [1] म [1] द [I] पा [s] थो [s] नि [s] # [1] र [s] प्ला [s] वि [1] त [s] क्षो [s] णि [1] पी [s] ठा [s] म [1] हा [5] शे [s] ल [1] शृ [s] गा [s] य [1] मा [s] णाः [s] इति लक्षणसमन्वयः । इत्थं लघुषट्कात् गुरुत्रयाच्च परतो यगणषट्ककृतं दण्डकमुदायहत्य- यथेष्टमिति सूचितां यगणवृद्धिमाश्रित्य कृतानामुदाहरणायादिशति- एवमेकैकयगणवृद्धया न्येऽप्युदाहार्या इति । एकैकस्य यगणस्ववृद्धया कृतानां मेघमालानामुपाहरमूह्य मितिभावः ॥ अ० २, सू० ३६३।१।।
यथेष्टं रा मत्तमातंगः ॥३९४॥ स्वेच्छया यत्र रगणाः प्रयुज्यन्ते स मत्तमातंगः । पुनर्यथेष्टग्रहणं लूगिन्यामित्येतस्य निवृत्त्यर्थम् । थथा- पुष्पचापस्य चापषियं बिभ्रती भगुरभूविलासः स्मितस्मेरकस्तूरिका-, केलिपत्रावलोभङ्गिविभ्राजिगण्डस्थलेनेन्दुबिम्बानुकारं सदा कुर्वती। चारुवकोक्तिगभैंर्वचोभिविदग्धरमन्दं च पीयूषनिष्यन्दमातन्वती, मत्तमातंगलीलागतिः काश्चनच्छेदगोरी मुदं कस्य नाविष्करोति प्रिया॥३९४.१॥ एवमेकंकरगणवृद्धचान्यदप्युदाहार्यम् ॥३६४.१॥