________________
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू०-३६३.] कौशिकौघाः ऊलूक समूहाः इव महाभूभृतां महापर्वतानां कन्दराः दरीः अभिश्रयन्ते सेवन्ते । केऽपि तेष्वेव कतिचन पुनः भूयः विपिनगहनमध्ये विपिनस्य वनस्य गहनं निबिडं मध्यम् अन्तः प्रदेशः तत्र शाखामृगाक्रीडितम् शाखाभृगाणां वानराणाम् आक्रीडितम् विलासं विभ्रति धारयन्ति । यदा त्वं सिंहवत् पराक्रमं प्रकटयसि तदा तव रिपवोऽपि वनपशव इवाचरन्तीति केचिद्वराहा इव पल्वलान्ते मुस्ता अन्विष्य तन्मात्र भोजना दिनानि यापयन्ति, केचन उलूका इव गुहासु निलीथ तिष्ठन्ति, परे च कान्तारमध्ये वृक्षावृक्षं धावन्तो मर्कटवृत्ति श्रयन्त इति भावः । त [1] रु [1] ण [1] त [1] र [1] णि [1] ते [s] जः [s] प्र [0] त [s] प्ता [s] व [i] रा [s] हा [s] इ[1] वा [s] र [s] ण्य [1] भा [s] गे [s] षु [1] मु [s] स्ता [s] क्ष [1] ति [s] प [s] ल्ल [1] ला [s] न्ते [s] इति लक्षणसंगति ॥ अ० २, सू. ३६२॥१॥
__लूगिभ्यां मेघमाला ॥३९३।। लघुषट्कात् गुरुत्रयाच परे यथेष्टं यत्र प्रयुज्यन्ते स मेघमाला नाम दण्डकः । यथा अविरल मदपायोनिर्भरप्लावितक्षोणिपीठा महाशल शृङ्गायमाणाः, कपिशरुचिलसद्दन्ताशनिद्योतरौद्रा महाजितत्रासिताशेषलोकाः । रिपुनरपतिमातंगा: क्षणादेव देव प्रणाशं ययुः संयुगान्तयुगान्ता-,निल इव विपुलप्राणे महामेघमाला महीपालधुर्य त्वयि प्रोज्जहाने ॥३ ३,१॥ एवमेकैकयगणवृद्धधान्येऽप्युदाहार्याः ॥३९३.१॥
यगणविन्यासयुक्तमेव दण्डकान्तरमाह- लगिभ्यां मेघमालेति । विवणोति- लघुषट्कात् गुरुत्रयाच परे यथेष्टुं यगणायत्र प्रयुज्यन्ते स मेघमाला नाम दण्डकः इति । षरख्याबोधकेन ऊकारेणसहचरितो ल: लधुषट्कबोधकः, तृतीयेन नामिना इकारेण सहचरितो गः गुरुत्रयबोधक इति लघुषट्कात् गुरुत्रयादित्यर्थोलब्धः । यथेष्टमिति कथनेन संख्या या अनियमेऽपि प्रथमोपस्थितायाः सप्तविंशति संख्याया एव पूर्तिर्यथा स्यात्तथैव न्यासः प्रदर्शनीय इति लघुषट्कं गुरुत्रयं यगणषट्क चेति 'I. 1. sss. Iss. ISS. Iss. ।ऽऽ. Iss. Iss.' इतीदृशैः सप्तविंशत्या अक्षरैः कृतपादं मेघमालानामानं दण्डक