________________
[अ० २, सू०-३९२.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते
३५५ विहायभिक्षु वेषेण पर्वतगुहादिषु निलीय तिष्ठन्तीति भावः। वि [1] वि [1] ध [1] म [i] णि [1] मे [s] ख [i] ला [5] श्रे [s] णि [1] वि [s] श्रा [5] णि [1] त [s] श्री [s] णि [I] हि [s] त्वा [s] पु [1] रा [s] ण्या [s] शु [1] चा [s] न्तः [s] पु [I] रा [s] ण्यु [s] च [1] कै: [s] इति लक्षणसमन्वयः। लघुपञ्चक त्परतो यथेष्ष्ट रगणन्यासस्यैकं प्रभेदमुक्त्वा प्रमेदान्तराणामूहनायातिदिशति- एवमेकैकरगणवद्धयाऽप्युदाहार्या इति । एकैकं रगणं वर्धयित्वा विन्यस्तपादा अन्येऽप्येवमेवोदाहरणीयाश्चण्डकालनामानो दण्डका इति भावः ॥ अ० २, सू० ३६१।१॥
याः सिंहविक्रान्तः ॥३९२॥ लो: परे यथेष्टं यगणा यत्र स सिंहविक्रान्तः । यथा- तरुणतरणितेजः प्रतप्तां वराहा इवारण्यभागेषु मुस्ताक्षति पल्वलान्ते, विदधति किल केचित्तथान्ये महाभूभृतां कन्दराः कौशिकौघा इवाभिश्रयन्ते । विपिनगहनमध्ये पुनः केऽपि शाखामृगक्रीडितं विभ्रति प्रत्यनीकक्षितीश :, प्रकटयति सदा सिंहविक्रान्तलीलामननां त्वयोमा धरित्रीश चौलुक्यचन्द्र ॥३६२.१॥ एवमेकैकयगणवृद्धयाप्युदाहार्यम् ॥३६२.१॥
___ लो:- (लघुपश्चकात्) यथेष्टं रगणविन्यासात्मकदण्डकमुक्त्वा यगणविन्यासेन तमाह- 'याः सिंह विक्रान्त' इति । विवृणोति- लोः परे यथेष्टं यगणा यत्र स सिहविक्रान्त इति । लघुपञ्चकात्परतो यथेष्टं यगणविन्यासे सिंहविक्रान्तनामा दण्डक इत्यर्थः । तत्र लघुपश्चकात् अष्टौयगणा इति प्रथमः प्रभेद: तथा च ॥ Is Iss. Iss. Iss. Iss. Iss. Iss. Iss.' इतीदृशेरूनत्रिंशता वर्णैः कृताः पादा यत्र स सिंहविक्रान्तो- यथा- तरुणतरणीति । हे चौलुक्यचन्द्र ! चुलुक्यकुलप्रकाशक ! धरित्रीश! पृथ्वीपते ! त्वयि भवति इमां प्रत्यक्षाम् अनूनाम् पूर्णा सिंहविक्रान्सलीलां सिंहस्य केशरिण इव विक्रान्तलीलां पराक्रमप्रदर्शनक्रीडां, सदा प्रकटयति आविस्कुर्वाणे सति प्रत्यनीकक्षितीक्षाः प्रतिभटराजाः केचित् तरुणतरणीतेजः प्रतप्ताः प्रौढसूर्य सभाप्रदग्धा: वराहाः शूकरा इव पल्वलान्ते क्षुद्रजलाशयतटे मुस्ताक्षतिः मेघनामतृणमूलोत्पाटनं विदधति किल कुर्वन्ति ननु, तथा अन्ये