________________
३५४
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू०-३६१.] पर्यन्तं रगणवृद्धया दम्भोल्यादयोऽप्युदाहार्या इत्यतिदिशति- एवमेकैकरगणव द्वयाऽन्येऽपि षड्दाहार्या इति । नगणद्गुरोश्च परतः, नवभीरगणैः दम्भोलि: दशभिर्हेलावली, एकदशभिः मालतो, द्वादशभिः केलि: त्रयोदशभिः कङ्कोल्लिः चतुर्दशभिश्च लीलाविलास इति षडेतेऽपि स्वबुध्योदाहरणीया इतिभावः । अ० २, सू० ३६१।१ ।।
अथ दण्डकस्यैव प्रकारान्तरमाह- लोर्यथेष्टं राश्चण्ड काल इति । विवृणोति- लघुपञ्चकात्परे यदृच्छया क्रियमाणारगणाश्चण्डकालः इति । समानेनैकादिरिति परि भाषणानु- लुरिति पञ्चलध्वक्षरवाचकः, तथा च पञ्चलघवः ततः परे यथेच्छं इच्छामनविक्रम्य- अष्टौ आरभ्य यावदेकोन सहस्राक्षरपादं रगणानां विन्यासश्चेत्स सर्वोऽपि दण्डक: चण्डकालनामा विज्ञेय इत्यर्थः । तत्र लघुपश्चकम् - रगणाष्टकम्- इतिप्रथमः प्रभेदः । लघुपञ्चकं रगणाष्टकम्- '... SIS. sis. Is sis. sis. sis. SIS. SIS.' इतीशैरुन त्रिंशता वर्णैः कृताः पादा यस्य स चण्डप्रपाद नामा दण्डकः। तदुदाहरणंयथा- विविधमणिमेखलेति । हे महोपालचूडामणे ! राज्ञां शिरोमणे ! चण्डकाले भयङ्करे कृष्णवर्णे च भयङ्करयमसहशेवा कराले निष्कृपे तव भवतः कृपाणे तरवारौ स्फुरति चञ्चले सति स्वीकृतच्छद्मकर्मन्दिवेषाः स्वीकृतोऽङ्गीकृतः छद्मना कपटेन कमन्दिनां भिक्षूणां घेषः स्वरूपं यः तादृशाः अमी त्वदीयद्वषः तव शत्रव. विविधमणिमेखलाश्रेणिविधाणितश्रीणि विविधाभिः अनेकप्रकाराभिः मणिमेखलानां मणिनिर्मित खड़बन्धानां श्रेणिभिः समूहैः विश्राणिता प्रदच्चा श्रीः शोभा येभ्यः तानि पुराणि नगराणि, तया- विविधाभिः मणिमेखलाश्रेणिभिः मणिनिर्मित रसनादामभिः विश्राणिताश्रीय तथा भूतानि उच्चकैः उन्नतानि अन्तःपुराणि- अवरोधङ्गना आशु शीन हित्वा त्यक्त्वा (भिक्षुभिः- यतिभिरपिपुराणि अन्तःपुर।णि च विहायव प्रव्रज्यते, इति आकृतम् ) करटितुरगसेनासहस्राणि च करटिनां हस्तिनां तुरगाणामश्वानां च सेना-सहस्राणि बह्वीः सेनाश्च हित्वा प्रतिदिशं सर्वासु दिक्षु गिरीणां पर्वतानां महाकन्दराः महतीगुंहाः शाखिगुल्मानि वृक्षकुञ्जानि कूलङ्कषाकूलरन्धाणि कूलङ्कषाणां नदीनां कूलरन्घ्राणि तटस्थछिद्राणि च सदा सर्वदा संश्रयन्ते सेवन्ते । तव रिपवः पुरं पुरन्ध्रीश्च