________________
[अ० २, सू०-३८८.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते
३४५ कृताः पादा यस्य स जीमूतनामादण्डक इत्यर्थः । तथा च . . sis. SIS. sis. SIS SIS. SIS. SIS. SIS SIS. SIS. SIS.' इतीशैर्वणः ऊनचत्वारिंशद्भिः कृता: पादा यस्य स जीमूतनामा- यथा जिनपतीति । दिष्चा सौभाग्यात् पुरस्तात् अग्रे अयं दृश्यमानः उज्जयन्तः तन्नाम्ना प्रसिद्धः गिरिः पर्वतः इति पश्य अवलोकय । तमेव विशिष्टि- जिनपतिपदपङ्कज स्पर्शपुण्यीकृताशेषशङ्गः जिनपते: पदपङ्कजयो: चरणकमलयोः स्पर्शन संपर्कण पुण्योकृतानि पवित्रतां नौतानि अशेषाणि सर्वाणि शृङ्गाणि यस्य सः, तत्तदाश्चर्यसम्पनिदानम् तेषां तेषामाश्चर्य सम्पदाम् अद्भुतसम्पत्तीनां निदानं कारणम् . भुवः पृथिव्या भूषणम् अलङ्कारभूतः; अन्वहं प्रतिदिनं प्रतिविपिननिकुञ्जकूजत्- पिकपञ्चमोच्चारसंगितस्वर्गसीमन्तिनीवर्गगीतिप्रपञ्चाभिराभिः प्रतिविपिनं सर्वेषु अरण्यभागेषु- निकुओषु लतागृहेषु कूजन्तीनां पिकीनां पञ्चमोच्चारैः पञ्चमनाद गानः तं वर्गितस्यैकत्रीभूतस्य स्वर्गसीमन्तिनीवर्गस्य देवाङ्गनासमूहस्य गीतिप्रयश्चन गानविस्तारेणाभिरामः सुन्दरः, कुरबकसहकारकारस्कराशोकजम्बूकदम्बेडगुदीवेणकान्तारमालाप्रतिच्छन्नमार्तण्डचण्डातपः कुरबकाः सहकारा: कारस्कराः अशोकाः जम्ब्वः कदम्बा, इंगुद्यः वेणवश्चेति- स्वस्वनाम्नाख्यातानां वृक्षाणां कान्तारमालाभिः वनसमूहै: प्रतिच्छन्नः वारितो मार्तण्डस्य सूर्यस्य चण्ड: दुः सहः आतपः धर्मः यत्र तादृशः, प्रतितट विनिविष्टजीमूतसंदोह निर्मुच्यमानामृतासारपूर्णोद्वहनिर्भरः प्रतितट पर्यन्तभागेषु विनिविष्टः प्रसृतः जीमूत सन्दोहैः मेधसमूहैः निर्मुच्यमानेन वृष्यमाणेन अमृतसारेण जल वर्षणेन पूर्णाः उद्वहन्तः उच्चः स्थानात्पतन्तः निझराः प्रपाता यत्र तादृशः । जि [1] न [1] प [1] ति [1] प [1] द [1] पं [5] क [1] ज [5] स्प [s] र्श [1] पु [s] ण्यी [5] कृ [i] ता [s] शे [s] ष [1] 7 [s] ङ्गः [s] पु [s] स्ता [s] द [1] यं [s] त [5] त्त [0] दा [s] श्च [s] र्य [1] सं [5] प [s] नि [1] दा [s] नं [s] भु [1] बो [s] भू [s] ष [1] णं [s] इति लक्षणसमन्वयः ॥ अ० २, सू० ३८८।४॥
अथ नगणद्वयात्परतो द्वादशभीरगणः कृतपादं लीलाकरनामानं दण्डकमवतारयति- द्वादशभिौलाक र इति । तथा च नगणद्वयं द्वादशरगणाः