________________
३४४ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू०-३८८.] वहदिति । हे चुलुक्येश्वर ! चुलुक्यवंशसंभूतनृप ! उद्दामलीलाजुषः स्वच्छन्दक्रीडासेवितः स्वीसखाः वनितासहायाः ये त्वदीयद्विषः तवशत्रवः चिरवहदरघट्टसंपूर्यमाणोच्छलत्सरिणीतोयधाराभिरामम् चिरं बहुकालं वहद्भिः चलद्भिः अरघट्टः कूपात्तोयनिःसारणमन्त्रः संपूर्यमाणानां जलेरापूर्यमाणानाम् उच्छलताम उद्धतं यथास्यात्तथा गच्छतां सारिणीतो. यानां प्रणालिकाजलानां धाराभिः प्रवाहैः अभिरामं सुन्दरं यथास्यात्तथाभूतं सदैकान्तकान्तप्रसर्पल्लतावहलिततरुगुल्मकेलीगृहम् सदा सर्वदा एकान्ते निभृतप्रदेशे कान्तं सुदरं यथास्यात्तथा प्रसर्पन्तीभिः चलन्तीभिः लताभिः बहलिताः पुञ्जीभूताः तरवोवृक्षा; गुल्मानि कुञ्जानि च तान्येव केलीगृहं क्रीडागारं यत्र तादृशं पुरोधानम् नगरोपवनम् चारु सुन्दरं यथा स्यात्तथा चेकः विजः: ते त्वदीयद्विषः अधुना सम्प्रति तवाक्रमणानन्तरम् तृषितकरटियूथभल्लूकसन्दोहकोलवजव्याकुलाश्यानकल्लोलिनीवारि तृषितः पिपासितः करटियूथैः गजघटाभिः, भल्लूक सन्दोहैः ऋक्षसमूहः, कोलवज: शूकरवृन्दैः व्याकुलम् आक्रान्तम्- अतएव आश्यानं शुष्कप्राप्यं कल्लोलिन्या नद्या वारि जलं यत्र तथाभूतम्- दुर्वारसूर्यधुति दुर्वारा सच्छायवृक्षाभावाद्वारयितुमशक्या सूर्यद्युतिः दिवाकर किरणाः यत्र तादृशम्, व्यतिकरविधुरीकृतव्यालसंरुध्यमानद्रुमच्छायम् व्यतिकरात् व्यवायात् विधुरीकृतः विच्छेदितः व्यालः सर्पः संरुध्यमाना उपभोगार्थ वार्यमाणा द्रुमाणां वृक्षाणां छाया यत्र तादृशं उद्दण्डकान्तारम् घोरमरण्यम्-ईयु: प्राप्तवन्तः। ये त्वदीयशलव; पूर्वं पुरोवने कान्ताभिः सह विजहुः ते त्वया विद्राविताः शुष्क प्रायनदीकम्, घोरातपपरीतम्, कान्तावियुक्त कुपितसर्पाकान्तवृक्षच्छायम् वनं प्राप्ताः । तत्रापि तेषां सर्वथा दुःखमेवेति भावः । चि [0] र [1] व [1] ह [1] द [1] र [0] घ [5] [1] सं [5] y [s] यं [1] मा [s] गो [s] च्छ [1] त्सा [s] र [I] णी [s] तो [s] य [i] धा [s] रा [s] भि [] रा [s] म [s] स [1] दै [s] का [s] न्त [1] का [s] न्त [5] प्र [1] स [s] पं [5] ल्ल [1] ता [5] इति लक्षणसमन्वयः ।।अ० २, सू० ३८८॥३॥
अथ नगणद्वयात्परत एकादशरगणकृतपादां जीमूतनामानं दण्डकं वर्णयितु मवतारयति- एकादशभिजी'त इति । नगणद्वयात्परत एकादशभीरगणः