________________
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू०-३८८.] 'im. I. SIS SIS. SIS. sis. SIS. SIS. Is. sis. sis. SIS. SIS. Sis.' इतीदृर्शीद्वचारिंशदक्षरः कृताः पादा यस्य स लीलाकरनामा दण्डक इत्यर्थः। उदाहरति- यथा- घनपरिमलेति । अयि ! अतिसुभग ! हे अत्यन्त सुन्दर ! भवन्नामधेयाक्षरोचारमन्त्रक रक्षाजुषः भवतो नामधेयाक्षराणाम् उच्चारः कथनम् एव मन्त्र: स एव एका केवलारक्षा विरहे प्राणरक्षणोपायः तां चुषते इति तया भूताया अस्याः मृगाक्ष्याः मृगनेत्राया अङ्गनायाः तव विरहे भवता सह वियोगावस्थायाम् यत् यस्मात् घनपरिमलसारकपूरपानीतिम्यद्कूलं घनं बहुलं परिमलम् सौरभमेव सारः मुख्यं यत्र तादृशेन कर्पूरपानीयेन घनसारमिश्रितजलेन तिम्यत् क्लिद्यमानम् दुकूलं वस्त्रं कुकूलश्रियं करीषाग्निशोभां दधत् धारयत्- पद्मिनीपल्लवस्त्रस्तरः कमलिनीदलशयनीयम्- खदिराङ्गारविस्फूजितम् खदिरकाषसंभूताग्निप्रभावं दधत्, तुहिनकिरणचन्द्रिका शीतरश्मिज्योत्सा हन्त इति दुःखे हालाहलत्वं हाविषत्वं दधती, नवं प्रत्यग्रघृष्टं चन्दनं श्रीखण्डद्रवः तप्तलोहोपमा अग्निदग्धलौह सादृश्यं दधत्, वेणुवीणानिनादः वंशीवल्लोक्योः शब्दः अपि कर्णज्वरावं श्रोत्रदाहकत्वं दधत् ( इत्थं ) सर्वमेव पूर्वोतं सकलं वस्तु व्यत्ययं वैपरीत्यम् अभजत् गतम् तत् तस्मात् सान्द्रपीयूषलीलाकरैः घनसुधाचमत्कारकारकः तैः प्रसिद्धः वचोभिः वाक्यः एतां मृगाक्षी चिराय बहुकालार्थ समाश्वासय आश्वस्तां विधेहि, अन्यथा तद्वपरीत्ये तु अत्र अस्या कष्टजनने त्वमेव निःशकचूडामणिः निर्दय शिरोमणिः असि । अस्याः तव विरहादेव सर्व सुखकारि वस्तु दुःखकारणमभूत् तस्मात् त्वदीयरनुकूलवंचोभिरेवेयं सुखिनी स्यादिति भावः । घ [1] न [1] प []] रि [1] म [1] ल [1] सा [s] र [1] क [s] y [s] र [I] पा [5] नी [5] य [1] ता [s] म्य [s] दुदु [1] कू [5] लं [s] कु [1] कू [s] ल [5] त्रि [1] यं [5] प [5] नि [1] नी [s] प [5] ल्ल [1] व [5] स्र [5] स्त [1] र: [s] खा [s] दि [I] रा [s] ङ्गा [s] र [1] वि [s] स्फू [s] जि [1] तं [5] इति लक्षणसमन्वयः। अ० २, सू० ३८८।५।।
अथ नगणात् परतः त्रयोदशभि: रगणः कृतपादम्- उहामनामानं दण्डकमुपवर्णयितुमाह त्रयोदशभिरुद्दाम इति । नगणद्वयं वयोदश रगणाः ॥.