________________
[अ० २, सू०-३८७.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते क्य तं विदुः जानन्ति पूर्वेकवय इति शेषः। अथ दण्डकजातीयेषु छन्दः सुवर्णनीयेषु, प्रथमं प्रभेदमाह- तत्र- ना” चण्डवृष्टिरिति । विवृणोतिना इति नगणद्वयं ! इति रगणसप्तकं चेति । समाहारोद्वन्द्व इति । ना च रऋ चेत्यनयोः समाहारद्वन्द्वे कृते क्कीबत्वात्सेलुंगिति भावः। तथा च ॥. m. sis. SIS. SIS. sis. sis. sis. sis.' इतीदृशैः सप्तविंशत्या अक्षरः कृताः पादा यस्य तत् चण्डवृष्टिनामकं दण्डकजातीयं छन्द इत्यर्थः। उदाहरतियथा- अभिनवेति । भोः पान्थ ! हे प्रवासिन् ! सर्वतः सर्वस्यां दिशि व्योमनि आकाशे अभिनवतरदुर्मदोद्दामपाथोदमालाकुले अभिनवतरा अतिनूतनाः दुर्भदाः दुर्वारगर्वाः उद्दामाः उच्छृङ्खलाः ये पाथोदाः मेघाः तेषां मालया घटया आकुले व्याप्ते सति, ऐन्द्रदिङमारते इन्द्रो देवता अस्या इति ऐन्द्री पूर्वा दिक्- आशा तस्या मारुते वायो स्फुटितकुटजकेतकी पांसुपुखच्छटाच्छोटिताशेषदिशि स्फुटितानां विकसितानां कुटजानां केतकीनां च स्वस्वनाम्नाख्यातानां पुष्पाणां पांसुपुञ्जानां परागसमूहानां छटाभिः घटाभिः आच्छौ टिताः आक्रान्तोः अशेषाः सर्वा दिशो येन तथा भूते सति, मुदितनिखिलनील कण्ठः प्रसन्नसकलमयूरः, कृते विहिते, करकेकारवव्याकुले
बेण दुःश्रवेण केकारवेण तदीय शब्देन व्याकुले आक्रान्ते ताण्डवाडम्बरे नृत्यविस्तारे सति, वर्मनि मार्गे सचण्डवृष्टिप्रपाताकुले चण्डाया दुःसहाया वृष्टयाः प्रपादेन निर्भरणेन आकुले आक्रान्ते सति प्रियां वल्लभां हित्वा विहाय कथमिव केन प्रकारेण चलितः प्रस्थितः असि। ईदृशे घोरे समये प्रियां परित्यज्य गमनं ते सर्वथाऽनुचितमिति- ईदृशे समये यात्रवानुचिता तत्रापि प्रिया परित्याग इति महाननर्थ इति वा भावः । अ [0] भि [1] न [1] व [0] त [I] र [1] दु [5] म [1] दो [s] द्दा [5] म [1] पा [s] थो [5] द [1] मा [s] त्वा [s] प्र [1] ति [s] च्छा [s] दि [1] ते [s] स [s] + [I] तो [5] व्यो [s] म [1] नि [s] (स्फुटितेति संयोगे गुरुत्वात्) लक्षणसङ्गतिः । अस्य नामान्तरमाह 'चण्डवृष्टिप्रपात' इत्यन्ये इति । पिङ्गल छन्दः शास्त्रे 'प्रधमश्चण्डवृष्टिप्रयातः' (पि. ६. शा. ७।३४) इति सूत्रं दृश्यत, तत्रापि 'प्रपात' इत्यपि पाठान्तरमिति पाद टिप्पण्यां दृश्यते । इहापि- 'प्रयात' इति पादान्तरं पादटिप्पण्यां दृश्यते इति पिङ्गलमतमेवेदमुक्तमिति प्रतिभाति ।। अ० २, सू० ३८७.१॥