________________
[अ० २, सू०-३८६.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते ३३५ करभ-३५-पणव-४०-मालाः ४५ इति । विवृणोति- एषैव पिपीलिकेत्यादिना। तथा च पूर्वो के पिपीलिकाच्छन्दसि नगण चतुष्टयादग्रं पञ्चलघुषुवधितेषु तत: परतो जगण भगण रगणेषु पूर्ववत् स्थितेषु 'पिपीलिकाकरभ' नामकं शेषजातिच्छन्दः, तथा नगण-चतुष्टयात्परतः दशसुलघुषु वर्धितेषु शेषेषु यथास्थानं स्थितेषु 'पिपीलिकपणव' नामकम् - एवम्- नगणचतुष्टयात्परतः पञ्चदशसुलघुषु वधितेषु शेषेषु यथास्थानं स्थितेषु 'पिपीलिकामाला'नामकंशेषजातिच्छन्द इत्यर्थः। तत्र मगणद्वयं तगणः नगण चतुष्टयं पञ्चलघवः जगण-भगण-रगणाः 'sss. sss. . . . . . . Is.. | .' इतीदृशैः पञ्चत्रिंशता वर्णैः कृताः पादा यस्य तत् पिपीलिकाकरभनामकं शेषजातिच्छन्द इति, तस्योदाहरणमाह- यथा- नित्यंलक्ष्मच्छायेति । हे करभोरु ! करभी मणिबन्धादाकनिष्ठं करबहिर्भागौ इव ऊरू यस्याः तत्सम्बोधनम् नित्यं सर्वदा लक्ष्मच्छायाच्छन्नः कलङ्कधुतिग्रस्तः चिरंबहुकालात् क्षयसंयुत। प्रतिदिनं क्षीयमाणः अमृतरुचिः सुधाकिरण: चन्द्रः तव भवत्या वदनरुचिम् मुखकान्ति कथमिव केन प्रकारेण (कथमपिनेति भावः) ललयतु धारयतु । स्फूर्जधूली-विधुरितजननयन युवम् स्फूर्जन्त्या उधूल्यमानया धूल्या विधुरितं पीडितं जनानां नयनयुगं येन तत् अब्ज कमलं निर्मलचारुणः विमलसुन्दरस्य ( तव ) अतिमदुकरचरणस्य अतिमृदोः परमकोमलस्य करचरणस्य पाणिपादस्य तुल्यं लमानं न: (अस्ति) श्यामा कृष्णवर्णा इयं प्रत्यक्षदृष्टी परभृतयुवतिः कोकिलतरुणी अपि मधुपरिचयकलविरुतिः मधुना वसन्तेन पुण्यरसेन वा परिचयात् संपर्कात् कला अव्यक्तमधुरा विरुतिः गानं यस्या स्ताहशी निसर्गकलध्वनेः सहजमधुरशब्दस्य (तव ) कण्ठस्य गलविवरस्य दासी परिचारिका । हे अतिललिततनु परमसुन्दरस्वरूपे ! अचरं भावाभिव्यक्ती अनिपुणं हरिणनयन् मृगनेत्रन् भ्रूवल्लीभङ्ग भ्रुकुटिलता कोटिल्ये छकाया विदग्धायाः ( तव ) दृशः दृष्टेः सदृशं तुल्य नो नास्ति । मुखेन सह चन्द्रस्योपमानत्वं प्रसिद्ध किन्तु कलङ्की क्षययुक्तः स निष्कलङ्कस्य प्रतिदिनं वृद्धकान्तेः तववदनस्य साम्यं कथंयातु। कमलस्य पाणिपादस्योपमानत्वं प्रसिद्धम्- किन्तु तधूलीसंयुतं, निर्मलस्य तस्योपमानत्वं कथं लभताम् कण्ठस्योपमा कोकिला