SearchBrowseAboutContactDonate
Page Preview
Page 379
Loading...
Download File
Download File
Page Text
________________ ३३४ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू०-३८६.] एषैव नीपरतः पञ्चदशपञ्चदशलवृद्धा क्रमेण करम ३५-पणव ४०-मालाः ४२ ॥३८६|| एषत्र पिपीलिका चतुर्यो नगणेभ्यः परतः पञ्चविंशमिश्च लघुमिवृद्धा शेषगणेषु तथैव स्थितेषु क्रमेण करभादयो भवन्ति । तत्र पञ्चभिवृंदा पिपीलिकाकरमः । यथा- नित्यं लक्ष्मच्छायाच्छन्नः कलयतु कथमिव तव वदनरुचिममतरुचिश्चिरं क्षयसंयुतः, तुल्यं नाब्जं स्फूर्जयूलीविधुरितजननयनयुगमतिमदुकरचरणस्य निर्मलचारुणः ! कण्ठस्येयं दासी श्यामा परभृतयुवतिरपि मधुपरिचयकलविरुतिनिसर्गकलध्वनेः, भ्रूवल्लीभङ्ग छकाया हरिणनयनमचतुरमतिललिततनु करभोरु नो सदृशं दृशः ॥३८६,१॥३५॥१॥ दशभिर्वृद्धा पिपीलिकापणवः । यथा- रुन्दोऽमन्दः कुन्दच्छायः शरदमलघनतुहिनविकचकुमुदवनहरहसितसितः शशाङ्ककरोज्ज्वलः, तारः पारावारापारः स्थलजलगगनतलसकलभुवनपथधवलनपरिचितः प्रसाधितदिङ्सुखः। लोकालोकच्छेदं गत्वा दृढकठिनविकटदिगवधितटघटनविवलनवलयितो वि. शुद्धयशश्चयः, प्रोत्तुङ्गः श्वेतप्राकारो ध्वनिगुणपणव तव जयति नृपवर नवललितवसतेजगत्रितयश्रियः ॥३८६.२॥४०॥१॥ पञ्चदशभिवृद्धा पिपीलिकामाला । यथा- उत्फुल्लाम्भोजाक्ष्यास्तस्याः कुसुमशरसुभगतव विरहदव इह हि जयिनि समुपचरणविषये व्यधायि सखीजनः, अङ्गे वासः कर्पूराम्भस्तिमितशुचि तुहिनकिरणकरपरिभवचतुरधवलिम कुचतटयुगे सुमौक्तिकदाम च । रम्भागुल्मं लीलागारं मलयजरसोलवसुघमभिनवविकचकुमुदवनदलसमुदयश्च तल्पककल्पना, नव्या मौलो महीमाला तदिदमखिलमपि दवहुतवहरुचि परिचितमहिम विरचयति मुहुः प्रदाहमहाज्वरम् ॥३८६.३॥४५॥१॥ शेषजातिप्रकरणम् । अथ दण्डकाः । यत् किश्चिद् दृश्यते छन्दः षड्विंशत्यक्षराधिकम् । शेषजात्यादिकं मुक्त्वा तत् सर्व दण्डकं विदुः ॥३८६४॥ अस्यैवच्छन्दसः प्रभेदानाहः एव नीपरतः पञ्च-दश-पञ्चदशलवृद्धा क्रमेण
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy