________________
[अ० २. सू०-३८५.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते यतिः। यथा- निष्प्रत्यूह पुण्यां लक्ष्मीमविरतमभिलषसि यदि रमयितुं सुखं च यदीच्छसि, स्थातुं न्यायोन्मीलबुद्ध लघुभिरपि सह बहुमिरिह कुरु मा विरोधपदं तदा। विस्फूर्जत्फूत्कारं कीडाकवलितसकलमगकुलमजगरं भुजंगममुन्मवं, संघातं कृत्वा पश्यता ग्लपितवपुषमनवधि: चितरुजा अवन्ति पिपीलिकाः ॥ ३८५१ ॥ ३०॥१॥
त्रिंशदक्षरपादां शेषजाति प्रकारान्तरेणाह-मौत नीजभ्राः पिपीलिका जणैरिति । विवृणोति- मद्वयं तगणो नगणचतुष्टयं जभराः । जणैरिति अष्टभिः पञ्चदशभिश्च यतिरिति । मगणद्वयं तगणो नगणचतुष्टयं जगणभगण-रगणाः 'sss. sss. ssi. m. .. . II. I. sis.' इतीदृशैत्रिशता अक्षरः कृता: पादा यस्य अष्टभिः पञ्चदशभिश्च यतिर्यत्र तत् पिपीलिकानामकं शेषजातिच्छन्द इत्यर्थः । उदाहरति- यथा- निष्प्रत्यूहमिति । हे न्यायोन्मीलबुद्धे ! न्यायेन सत्पथेन उन्मीलन्ती विकसन्ती बुद्धिर्यस्य तत्सम्बोधनम्, यदि चेत् पुण्यां पवित्रां लक्ष्मी सम्पदम् अविरतं सतबं रमयितुं स्वात्मनि सलील स्थापयितुम् अभिलषसि इच्छसि, सूखं निर्दुःखं स्थातं च यदि इच्छसि अभिलषसि, तदा इह संसारे लघुभिः क्षुद्रैः अपि बहुभिः अनेकः सह साकं विरोधपदम् विरुद्धव्यवहारं मा कुरु । विस्फूर्जस्फूत्कारम् विस्फूर्जन उच्चै रुद्गच्छन् फूत्कारः शब्दविशेषो यस्य तं क्रीडाकलितसकलमृगकुलम् क्रीडया अनायासेन कवलितं भक्षितं सकलं समग्रं मृगकुलम् हरिणवृन्दं येन तथाभूतम् उन्मदं मत्तं भुजंगमम्- सर्पम् अजगरम् तज्जातीयम् एताः पिपीलिकाः क्षुद्रकीटजातयः संघातं समूहं कृत्वा विधाय अनवधिरुजा असीमपीडया ग्लपितवपुषं क्षीणशरीरं कृत्वा अदन्ति खादन्ति ( इति ) पश्य अवलोकय । क्षुद्रतमा अपि पिपीलिका घोरमजगरमपि निहत्य खादन्तीति दृष्ट्वा लघुभिरपि बहुभिविरोधः परिहरणीय इति भावः । नि [s] प्र [s] त्यू [s] हं [s] पु [s] ण्यां [s] ल [s] क्ष्मी [5]; म [1] वि [1] र [1] त [1] म [1] भि [1] ल [i] ष ]] सि [1] य [1] दि [1] र [1] म [1] पि [1] तुं [5]; सु [1] खं [s] च [1] य [1] दी [s] च्छ [1] सि [s] ( पादान्तस्य विकल्पेन गुरुत्वात् ) इति अष्टभिः पञ्चदशभिश्च यत्यालक्षणसंगतिः । अ० २, सू० ३८५ ॥