________________
३३२
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू०-३८५.] . अथाष्टात्रिंशदक्षरां शेषजाति वर्णयति- द्वादश ना ल्गो ललितलताविरिति । विवृणोति- द्वादश नगणा लघुगुरू च । त्रिरिति त्रीन्वारान् दशभिर्यतिरिति । तथा च . . . . . . . . . .
...' इतीहशेरष्टात्रिंशता वर्ण: कृताः पादा यस्य दशभिर्दशभिर्दशभिश्च यतिर्यत्र तत् ललिबलतानामकं शेषजातिच्छन्द इत्यर्थः । उदाहरतियथा-जिनचरणेति । हे तरुणि ! युवते ! जिनचरणसरसिरहपरिचरण रतमनसि जिनचरणावेव सरसिरहे कमले तयोः परिचरणे सेवने रतम् आसक्तं मनो यस्य तादृशे, परमशमम् निरतिशयशान्तिम् उपदधति धारयमाणे, कलितपरमलये प्राप्तनितान्तलीनतावस्थे विषयदवदलनजुषि विषयदवस्य सांसारिकभोग्यवस्तुदावाग्नेः दलनं नाशनं जुषते सेवते इति ताशि यतिनि जितेन्द्रिये इह मुनी अतिचतुरनयनगतिम् परमनिपुणनेत्रव्यापारं विफलं व्यर्थ तनुषे विस्तारयसि इति बत् खेदः । हे मदन ! काम ! निजसदनं स्वावासं व्रज गच्छ, हे पिकतरुण! कोकिलयुवक ! अपसरणम् पलायनम् उपरचय कुरु, हि यत: रणरणकम् औत्कण्ठ्य न उपजनयसि उत्पादयसि; प्रयोजनाभावात्- त्वयापि न स्थेयमिति भावः । हे मधुसमय ! वसन्त” ! नवमदमुदितमधुपकुल कलरणितमुखरललितलताम् नवेन मदेन हर्षेण मुदितस्य प्रसन्नस्य मधुपकुलस्य भ्रमरसमूहस्य कलरणितेन मधुरगुञ्जितेन मुखरां वाचालां ललितलताम् सुन्दरवल्ली किमिति किमर्थं प्रकटयसि, तयापि नास्य मनो विकारणीयमिति भावः । जिनचरणाश्रिते शान्ते ध्याननिमग्ने यतिनितरुण्या मदनस्य वसन्तसमस्य वा न प्रभाव: संभवतीति तैव्यर्थमेव तत्समीपे स्थीयत इति भावः । जि [1] न [1] च [1] र [1] ण [i] स [1] र [1] सि [0] रु [0] ह [0], प [1] रि [D] च [1] ण [0] र [1] त [1] म [1] न [1] सि [1]; प [1] र [1] व [1] श [1] म [1] मु [0] प [1] द [I] ध [1] ति [1]; क [1] लि [1] त [1] प [1] र [1] म [2] ल [1] ये [s] इति दशभिस्त्रियंत्यालक्षण संगतिः ।। अ० २ सू० ३८४०१ ॥३८।१।।
मौ तनीजम्राः पिपीलिका जणैः ॥३८५|| मवर्य तगणो नयणचतुष्टयं जभराः। जगैरिति अष्टमिः पञ्चदभिश्न