SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू०-३८४.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते ३३१ अथ त्रिशदक्षरां शेषजातिमाह- द्विर्भजसना म्यौ नृत्तललितमिति । विवृणोति- भयौ चकेवलौ द्वौ वारौ भजसन इत्येते गणाः, भयौ च केवलौ भजसन भजसनभया इतीति । तथा च भगण-जगण-सगण-नगण-भगणजगण-सगण-नगण-भगण-यगणा:-51.ISI.IIS.III.SIL.ISI.IIS.I.SIL Iss. इतीदृशैः त्रिंशता अक्षरैः कृताः पादा यस्य तत् नृत्तललितं नाम शेष जातिच्छन्द इत्यर्थः । उदाहरति- यथा- अद्य कलहंसेति । इह अस्मिन् काले चकितबालमृगलोलनयनां चकितस्य भीतस्य बालमृगस्य नयने इव नयने यस्याः सर्वगुणकेलिसदनं सर्वेषां गुणानां केलिसदनं क्रीडागृहं तां हृदयस्थितां प्रियतमां वल्लभां विना तदभावे अद्य अस्मिन् दिने हे कलहंसललने ! मरालपत्नि ! स्वं आत्मानं ललितमन्थरगतौ सुन्दरमन्दगमने सपत्नरहितं प्रतिपक्षहीनं मानय भावय हे कोकिलविलासिनि पिककामिनि अमन्दमतिमत्ता तीक्ष्णबुद्धिगविता सती कलगीतिरचनाचतुरतामदम् अव्यक्तमधुरगानविधान नैपुण्यगवं विधेहि कुरु । हे युवमयूर तरुणबर्हिन् ! त्वमपि चिराय बहुकालकृते गतशङ्कः प्रतिभटशङ्कारहितः सन् सम्प्रति गच्छति काले दुर्ललित नृत्तललितम् स्वच्छन्दनर्तन विलासम्- रचय विधेहि । मत्प्रियायाः सत्त्वे भवताम् तया विजित गुणानां स्व-स्वगुणप्रख्यापनस्यावसरो नासीत्- सम्प्रति तस्या अभावात् यथेच्छं स्वगुणगर्व प्रकाशयतेति भावः । अ [5] द्य [2] क [1] ल [1] हं [s] स [1] ल [I] ल [1] ने [s] ल [1] लि [1] त [1] मं [s] थ [1] र [i] ग [1] तो [s] स [1] प [1] दि [I] मा [s] न [1] य [1] स [1] प [s] ल [1] र [1] हि [D] तं [s] स्वं [s] इतिलक्षणसमन्वयः ।। अ० २, सू० ३८३।१ ॥ ३०॥१॥ द्वादश ना ल्गौ ललितलता त्रिज्ञैः ॥३८४॥ द्वादश नगणा लघुगुरू च । त्रि.रिति त्रीन वारान दशभिर्यतिः । यथाजिनचरणसरसिरुहपरिचरणरतमनसि परमशममुपदधति फलितपरमलये, विषयबलदलनजुषि बत तरुणि विफलमतिचतुरतरनयनगतिमिह यतिनि तनुषे । वज मदन निजसदनमपसरणमुपरचय पिकतरुण रणरणकमुपजनयसि नहि, प्रकटयसि मधुसमय किमिति नवमदमुदितमधुपकुलकलरणितमुखरललितलताम् ॥ ३८४.१ ॥ ३८।१।।
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy