SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ३३० सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू०-३८३.] विरचितवती- इति, एवं भूताचरणस्तासां प्रमोदमहोदयो ज्ञात इति भावः । का [5] प्यु [5] दुग्री [s] वा [s], प्रा [s] स्थि [1] त [0] ब [s] द्धो [s] स्क [s] ण्ठं [5]; क [1] र [1] क [1] लि [1] त [1] शि [1] थि [1] ल [1] व [1] स [1] ना [5]; द [1] धा [s] व [1] च ]] का [s] च [1] न [1] इति चतुभिः सप्तभिरेकादशभिश्च यत्या लक्षणसमन्वयः । अ० २, सू० ३८२।१ ।। ___ अस्यैवच्छन्दसं उदाहरणान्तरमाह-वन्द्यादेवीति । पर्वतपुत्री अचलकन्या देवो नित्यं प्रतिक्षणं वन्द्या प्रणम्या । सा कीदृशीत्याह- मधुमधुरकमलवदना मधुनामकरन्देन मधुरं सुन्दरं कमलम् पद्ममिव वदर्न मुखं यस्याः सा, पुरन्ध्रयधिदेवता पुरन्ध्रीणां सतीनाम् अधिदेवता अधिष्ठात्री देवी, देवैः सुरैः स्तुत्या स्तोतुं योग्याः भक्त्या श्रद्धया किनरगेया किन्नरैः देवयोनि विशेषः गेया गानविषयीकृता, अवरचरितमहिषमथनी निकृष्टाचारि महिषासुरमदिनी, जगत्त्रयनायिका त्रैलोक्यनेत्री सिद्धैः देवजातिविशेषैः कामम् अत्यन्तं ध्येया ध्यानकर्मीकृता केसरियाना सिंहवाहना रणचतुररसिकहृदया रणे संग्रामे चतुरा च रसिकहृदया- सरसान्तः करणा च- सा, त्रिलोचनवल्लभा त्र्यम्बक प्रिया, वीरैः शूरैः पूज्या पूजाकर्मीकृता, दर्पणपाणिः दर्पणम् आदर्श: पाणौँ यस्याः सा, नूनं निश्चितं गुणनिलयलटभललिता गुणनिलया गुणानां निधिः, सा चासौ लटभललिता लटभं बालभावाश्रितं ललितं क्रीडितं यस्याः सा, सतीषु सच्चरितासु घुरंधरा अग्रगण्या। अत्रापि पूर्ववल्लक्षणसमन्वयः, यतिनियमश्च द्रष्टव्यः । अ० २, सू० ३८२।२। २६॥१॥ द्विर्मजसना म्यौ नृत्तललितम् ॥३८३।। द्वौ वारी मजसन इत्येते गणाः। भयौ च केवलौ। भजसनमजसनमया इति । थथा- अद्य कलहंसललने ललितमन्थरगतौ सपदि मानय सपत्नरहितं स्वं, कोकिलविलासिनि विधेहि कलगीतिरचना- चतुरतामदममन्दमतिमत्त।। दुर्ललितनृत्तललितं युवमयूर रचय त्वमपि संप्रति चिराय गतशङ्कः, सर्वगुणकेलिसदनं चकितबालमृगलोलनयनां प्रियतमामिह विना ताम् ॥३८३.१॥ ३०॥१॥
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy