SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू०-३८२.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते ३२४ सिताङ्गिका । काचिच्चके भूषणमङ्गे काचित् तिलकमकृत नवमलिके चुलुक्यमहीपतो, यात्रां कृत्वोपेयुषि पौरस्त्रीणां समजनि निरवधिरधुना प्रमोदमहोदयः ।। ३८२.१ ॥ यथा वा- वन्द्या देवी पर्वतपुत्री नित्यं मधुमधुरकमलवदना पुरन्ध्रयधिदेवता, देवः स्तुत्या किनरगेया भक्त्यावरचरितमहिषमथनी जगत्रयनायिका । सिद्धध्या केसरियाना कामं रणचतुररसिकहृदया त्रिलोचनवलमा, वीरैः पूज्या दर्पणपाणि नूनं गुणनिलयलटभललिता सतीषु धुरंधरा ॥ ३८२.२ ॥ अथोनत्रिंशदक्षरपादां शेषजातिमुदाहरति-म्तो प्तौ निसल्गाः प्रमोदमहोदयो घछटैरिति । विवृणोति- मतयता नगणत्रयं रसलगाश्च । घछटैरिति चभिः सप्तभिरेकादशभिश्च यतिरिति । मगणः तगणः यगणः तगणः नगणत्रयं रगणः सगणः लघुगुरू च 'sss. ऽऽ.. Iss. ss. 1. .. sis. ॥s. Is.' इतीदृशैरूनत्रिंशद्भिरक्षरः कृताः पादा यस्य, चतुभिः सप्तभिरेकादशभिश्च यतिर्यत्र तत् शेषजातिषु प्रमोदमहोदयो नाम वृत्तमित्यर्थः । उदाहरति- मथा- काऽप्युद्प्रोवेति । चुलुक्यमहीपतो चुलुक्यवंशीये राजनि यात्रा परराष्ट्राक्रमणं कृत्वा विधाय उपेयुषि परावृत्य प्राप्तवति सति अधुना सम्प्रति पौरखीणां नगरसुन्दरीणां (तद्दर्शनलालसां) प्रमोदमहोदयः आनन्दोत्पत्तिवाहुल्यम् समजनि अभूत् । कथमिति चेत्तासां चेष्टा आहकाऽपि काचन नागरी बद्धोत्कण्ठं संभृतौत्सुक्यं यथास्यात्तथा उद्ग्रीवा गीवामूर्वीकृत्य प्रास्थित तद्दर्शनाय प्रस्थिता। काचन च करकलितशिथिलवसना हस्तधृत-प्रभ्रश्यद्वस्त्रा ( वस्त्रसंयमनविलम्बमसहमाना हस्तेनैव तदलम्बमानेति भावः) दधाव द्रुतं ययौ । कापि च स्तम्भं चेष्टाशन्यत्वं दध्र धारयामास (अतित्वरया जातः सम्भ्रमा निश्चेष्टा जातेति भावः ) काचिच्च अन्या अतिशयितबहलपुलकाङ्कुरोलसिताङ्गिका अतिशयिताः अतिभूमि गता बहलाः प्रभूताः ये पुलकाङ्कुराः रोमहर्षाः तैरुल्लसितम् शोभितम् अङ्गं यस्यास्तादृशी ( सात्विकभावोद्रेकात् ) आसीत्अभूत् । काचित् अङ्ग शरीरे भूषणम् अलङ्कारं दधे धारयामास ( जनानां दृष्टावनलङ्कृताया आदराभावमभिलक्ष्य त्वरयाऽलङ्करणं दधारेत्यर्थः ) काचित् अलिके भाले नवं प्रत्यग्रं तिलकं विशेषकम् अकृत
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy