________________
३२७
[अ० २, सू०-३८१.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते विजये नियोजितोऽतएव शिवनेत्राग्निा दग्ध इति तदुजीवनाय-मयोद्योगः कार्य इति विचार्य सुधाकलशमुत्थाप्य तमुज्जीवयितुं प्रयत्यते स- एवायं पूर्णचन्द्रः प्रतिभातीति भावः । अ [0] य [0] म [1] नु [1] नी [5] य [0] स [s] 4 [0] सु [1] र [1] का [s] 4 [1] कृ [1] ते [s], म [1] म [1] व [s] त्ल [1] भे [s] न [1] दि [1] वि [1] षत् [s] प [1] ति []] ना [1] इति चतुर्दशभिर्यत्यालक्षणसङ्गतिः ॥ अ० २, सू० ३८०।१॥ इत्यं षड्विंशत्यक्षराया उत्कृति जातेः पञ्चभेदा निरूपिता: प्रस्तारगत्या तु३७१०८८६४ भेदा भवन्ति तदुक्तं भरतेन "षट्कोट्यस्तु, सहस्राणां शतानि टेकविंशतिः । अष्टौ चैव सहस्त्राणि शतान्यष्टी तथैव च । चतुष्पष्टिस्तु ह्य त्कृतावपि संख्यया ॥ इति (भ ना. शा. १४।७८) । इत्युत्कृतिः ।।
इति-उक्तादिजातिप्रकरणम् ।।
___ अथ शेष-जातिप्रकरणम् । शेषजातौ मतिनायि मालाचित्रं टैः ॥ ३८१॥ मस्तगणत्रयं नगणद्वयं यगणत्रयं च एषां समाहारद्वन्द्वः । टेरिति एकादशभिर्यतिः । यथा-पान्थाः शीघ्र यात नातः परं वः क्षणमपि यदिह शुभं तत्र गत्वाश्रयध्वं, कान्तां नो चेदत्र तां देवतां स्वां स्मरत सपदि भवतो हन्त संह. तुकामः । कालोऽयं जीमूतनामाभ्युपैति स्तनितबधिरितमहीमण्डलश्चण्डविद्युन्मालाचित्रास्त्रप्रहारीति दूरात् कथयति शिखिनिवहस्तारकेकारवेण ।। ३८१.१ ॥
षड्विंशत्यक्षरान्ताः सर्वसम्भताश्छन्दो जातयो वर्णिताः तत: परमन्यैर्दण्डका एवोक्ताः किन्तूदाहरणेषु जातिच्छन्दोभिः साम्यदर्शनात्काश्चनान्या अपि जातयः स्वाभिमता: शेषजातित्वेनोक्ताः । तासां वर्णनमुपक्रमते- शेषजातो मतिनाभि मालाचित्रं ठेरिति । मतिनायीति विवृणोति- मस्तगणत्रयं नगणद्वयं यगणत्रयं च एषां समाहारद्वन्द्व इति । मकारो मगण परः, तिरिति समानेन कादिरिति न्यायात्तगणत्रय परः एवं 'ना' इत्याकार विशिष्टत्वान्नगणद्वयपरम्, तथैव 'यि' इति यगणत्रयपरमिति भावः । तेषां समाहारद्वन्द्वभाश्रित्य कीबत्वं प्रयुक्तमिति भावः टैरिति एकादशभिर्यतिरिति ।