SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३२६ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू०-३८०.] वति लोकविजयसम्भ्रमयुक्ते सति कथं केन प्रकारेण भवसि वर्तसे (वत्तिष्यसे ) इति बत दुःखम् । एतावान् समयो गृहात् बहिः स्थितेन भवता कथं कथमप्यपवाहितश्चेत् अस्तु किन्तु पूर्वोक्त रूपे, वर्षासमये, तवकागतिभविता यत्र मदनोजगद्विजयाय त्वरते, तद्विचार्य झटिति गृहं संश्रयेति भावः । न [1] भ [1] सि [1] भृ [1] शं [s] स्त [1] न [0] ति [0] भ [1] रि [1] त [1] दि [s] क [5] न्द [0] र [1] म [1] भि [1] न [1] व [1] ज [1] ल [0] ध [1] र [1] प [0] ट [1] ले [5] इति लक्षणसङ्गतिः ॥ ३७६.१॥ नजभजिम्जल्गाः सुधाकलशो ढैः ॥ ३८० ॥ नजभा जत्रयमजलगाः। ढेरिति चतुर्दशभियंतिः । यथा- अयमनुनीय सर्वसुरकार्यकृते मम वल्लमेन दिविषत्पतिना, ननु विनियोजितः कवलितश्च ततत्रिपुरान्तकृन्नयनहव्य भुजा । इति हृदये विचिन्त्य परिजीवयितुं मकरध्वज सपदि पूर्वविशा, नियतमुदासि संप्रति सुधाकलशः परिपूर्णशीतचिबिम्बमिषात् ॥ ३८०१॥ पञ्चमं प्रकारमाह- नजभजिम्जल्गाः सुधाकलशो ढेरिति । विवृणोति नजमा-जलय-भजलगाः। द्वैरिति चतुर्दशभिर्यतिरिति । नगण-जगणभगणा जगणत्रयं भगण-जगणी लघुगुरुच ISI.SI.SI.'s.sI.IS1 S1.51.Is. इतीदृशैरक्षरैः कृताः पादा यस्य चतुर्दशभिश्च यतिर्यत्र तत् सुधाकलशो नामोत्कृति जातिच्छन्द इत्यर्थः । उदाहरति- यथा- अयमनुनीयेति । मम (पूर्वदिशः) वल्लभेन प्रियेण दिविषत्पतिना इन्द्रेण सर्वसुरकार्यकृते सकलदेवकार्यार्थम् अनुनीय अनुकूलयित्वा अयं मदनः विनियोजितः शिवविजयार्थ नियुक्तो ननु निश्चयेन, तत: तदनन्तरं त्रिपुरान्तकृन्नयनहव्यभुजा त्रिपुरारि-शिव-नेत्र वह्निना कवलितः भुक्तः ( दग्धः) च; इति हृदये चित्ते विचिन्त्य विचार्य सपदि शीघ्रमेव मकरध्वज कामं परिजीवयितं संजीवयितुं पूर्वदिशा प्राच्या ककुभा परिपूर्वाशीतरुचिबिम्बमिषात् पूर्णचन्द्रमण्डलच्छाव सम्प्रति अधुना 'सुधाकलशः' अमृतपूर्ण कुम्भः नियतं निश्चितम् उदासि उत्थापितः । पूर्वदिशा- मम प्रियेणेन्द्रेणैव कामः शिव
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy