________________
३२४
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू०-३७८.] पलायितयोधम् अपगजम् निहतकरि अपवाहम् यिगतहयं च कृतम् रिहितम् । यस्य प्रशंसां देवा अपि कुर्वन्ति तस्या कृते शत्रु सैन्यस्य चतुर्णामप्यङ्गानामु-मूलतं कियदाश्चर्यजनकमिति भावः । यः [5] श्ला [s] घ्यः [5] प्र [1] ति [1] दि [I] न [I] म [I] पि [1], म [I] द [1] न [1] द [1] ह [1] न [1], ग [1] रु [1] ड [1] ग [1] म [0] न [0], च [1] तु [1] रा [s] स्या [5] द्यः [5] इति नवभिः षड्भिः षड्भिश्च यत्या लक्षणसमन्वयः ॥ अ० २, सू० ३७७ ॥
भो नौ स्मौ निल्गा आपीडो डैः ॥ ३७८ ॥ ' मननसमा नगणत्रयं लघुगुरू च । डरिति त्रयोदशभिर्यतिः । यथा- पश्य विविषवरविटपिनिकुअश्यामीकृतविपुलतरकटकभूर्, आश्रमशतलसदिभहरिमैत्रीप्रेक्षारसवदमरयुवतिजनः । रेवतकगिरिरयमिह पुरस्ताद्यस्मिन् जिनचरणनमनमिलिता, शेषसुरपतितदमलपुष्पापोडैर्भवति सुगभिरयमनिलः ॥३७८.१॥
तृतीयं प्रभेदमाह- भो नो स्मौ निल्गा आपीडो डैरिति । विवृणोतिभननसमा नगणत्रयं लघुगुरूच । डैरिति त्रयोदशभिर्यतिरिति । भगणो नगणद्वयं सगण मगणी नगणत्रयं लघुगुरुच. ...s.sss..... 15. इतीदृशैरक्षरैः कृताः पादा यस्य त्रयोदशभिश्च यतिर्यत्र तत् आपीडं नामोत्कृति जातिच्छन्द इत्यर्थः । उदाहरति- यथा- पश्यविविधेति । इह अत्र पुरस्तात् अग्रे अयं दृश्यमान: विविधवरविटपिनिकुञ्जश्यामी कृतविपुलतरकटकभूः विविघः नानाप्रकारैः वरविटपिनां श्रेष्ठपादपानां निकुञ्जः गुल्मैः श्यामीकृता कृष्णवर्णतां नीता विपुलतरा सुमहती कटकभूः मेखलाप्रान्तभूमिः यस्य स: आश्रमशतलसदिभहरिमैत्रीप्रेक्षारसवदभरयुवतिजनः आश्रमशतेषु अनन्त तपस्विनिवासेषु लसन्ती शोभभाना या इभहरिमैत्री गजसिंह सख्यम् तस्य प्रेक्षाया मवलोकने रसवान् औत्सुक्ययुक्त: अमरयुवतिजन: देवतरुणीलोकः यस्मिन् सः, रेवतकगिरिः तदाख्य- पर्वतः अस्ति (तं ) पश्य अवलोकय यस्मिन् पर्वते अयम् अनुभूयमानः अनिलः वायुः जिनचरणनमनमिलिताशेषसुरपतिपतदमलपुष्पापीडः जिनचर