SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ [अ० २, सू० - ३७७ ] सवृत्तिच्छन्दोऽनुशासनप्रद्योते ३२३ ऊर्जितं यत्र तथाविधम् स्फुटं स्पष्टम् अजनि जातम् । स्वया विद्रावितेषु शत्रुषु तेषां नगरस्यारण्यता संजातेति तत्र नानाविधाः श्यापदा एव निवसन्ति ततस्तैरिद मुक्तरूपं जातमिति भावः । का [s] पि [s] स्वै [s] रं [s] क्रू [s] र [5] क्री [s] ड [5]; न्म [1] हि [] ष [1] श [1] त [1] म [1] च [1] कि [1] त [1] च [1] रत् [s]; कु [1] रं [s] वा [1] कु [1] लं [5] क्व [1] चित् [s] इति अष्टाभिरेकादशभिश्च यत्या लक्षणसमन्वयः ॥ अ० २, सू० ३७६।१ । मनूसगगा अपवाहो झचचैः ॥ ३७७ ॥ मो नगणषट्कं सगगाश्च । भचचंरिति नवभि: षड्भिः षड्भिश्च यतिः । यथा - यः श्लाध्यः प्रतिदिनमपि मदनदहनगरुडगमनचतुरास्याद्यैर्, गेयो यः सुरपतिपरिषदि च किमपि मुदितविबुधरमणीवृन्दैः । चौलुक्यान्वयजलनिधिहिमकर कियदिह तव नृपवर तस्यैतद् यत्सवं कृतमरिबलमपरथमपभटमपगजमपवाहं च ।। ३७७.१ ॥ द्वितीयं प्रभेदमाह - मनूसगगा अपवाहो झचचैरिति । विवृणोति - मो नगणषट्कं सगगाश्च । भचचैरिति नवभि: षड्भिः षड्भिश्च यतिरिति । मगणः नगणषट्कं सगणो गुरुद्वयं च 'ऽऽऽ ।। ।।। ।।। ।।। ।।. III. ॥s. ss. ' इतीदृशैरक्षरैः कृताः पादा यस्य नवभिः षङ्भिः षङ्भिश्च यतियंत्र तत् अपवाहो नामोत्कृतिजातिरित्यर्थः । उदाहरति- यथा - यः श्लाघ्य इति । यः त्वम् प्रतिदिनमपि प्रतिदिवसमपि मदनदहन गरुडगमनचतुरास्याद्यं मदनस्य दहनः शिवः गरुडेन गमनं यस्य सः विष्णुः चत्वारि आस्यानिमुखानि यस्य सः ब्रह्मा ते आद्माः प्रथमा येषां तादृशैः देवः श्लाघ्यः प्रशस्य:, यः त्वं सुरपतिपरिषदि इन्द्रसभायाम् मुदितविबुधरमणीवृन्दैः 'हर्षित सुराङ्गनासमूहैः किमपि अनिर्वचनीयं यथास्यात्तथा गेयः गान विषयीकृतः च, हे चौलुक्यान्वयजलनिधिहिमकर! चौलुक्यवंशसागरसंभूतशशाङ्क ! नृपदर ! राजश्रेष्ठ, तस्य पूर्वोक्त विशेषणविशिष्टस्य तव भवतः एतत् अग्रे उच्यमानम् इह संसारे कियत् किं परिमाणं वर्णनीयम् - यत् सर्वम् निखिलम् अरिबलम् शत्रुसैन्यम् अपरथम् रथशून्यम्, अपभटम्
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy