________________
३२२
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २, सू०-३७६.] इति संख्या भवति । तदुक्तं भरतेन- तथा शत सहस्राणि पञ्चविंशच्च संख्या। तिस्रः कोट्यः, सहस्राणि चतुष्पञ्चाशदेव च । शतानि चत्वारि तथा द्वात्रिंशत्प्रविभागतः । वृत्तान्यभि कृती चव छन्दोज्ञः कथितानि वै ॥ इति ( भ. ना० शा० १४.७६ ) ॥ ३७५.१ ॥ इत्यभि कृतिः । उत्कृतौ मौ तो निरसल्गा भुजंगविजृम्मितं जटैः॥३७६|| . ममता नगणत्रयं रसलगाः । जटैरिति अष्टाभिरेकादशमिश्च यतिः । यथाकापि स्वरं करकोउन्महिषशतमचकित चरत्कुरंगकुलं क्वचित, कापि क्रीडाव्यप्रकोड क्वचिदपि मदजडविहरन्मतंगजसंकुलम् । सिंहक्ष्वेडारौद्रं कापि क्वचिवपि विषविषममहाभुजंगविजृम्भितं, श्रीचौलुक्यक्षोणीनाथ स्फुटमजनि भवदरिमहीभुजामधुना पुरम् ।। ३७६.१ ।।
अथ षड्विंशत्यक्षरामुपकृतिजाति वर्णयितुमुपक्रमते- उत्कृतौ नौ तो निरसल्गाभुजङ्गविजृम्भितं जहैरिति । विवृणोति ममता नगणत्रयं रसलगाः । जटैरिति अटाभिरेकादशभिश्च यतिरिति । मगणद्वयं नगणः नगणत्रयं रगणसगी लघुगुरू च sss.ssss.11.11.10 sis.s.15 इतीदृशर्वणः कृताः पादा यस्य अष्टाभिरेकादशभिश्च यतिर्यत्र तत् भुजङ्गविजृम्भितं नामोत्कृति जातिच्छन्द इत्यर्थः । उदाहरति- यथा-क्वापिस्वैरमिति । श्रीचौलुक्यक्षोणीनाथ ! चुलुक्यवंशोद्भव ! राजन् ! अधुना सम्प्रति भवदरिमहीभुजाम् त्वच्छत्रुनृपाणां पुरम् नगरम् वापि कुत्रचित्प्रदेशे स्वैरं स्वच्छन्दं करकी उन्महिषशतम् क्रूरं घोरं यथास्यात्तथा क्रीडन्ति खेलन्ति महिषशता नियत्र तथाभूतम् क्वचित् अन्यत्र- अचकितचरत्कुरङ्गकुलम् अचकितं विश्वस्तं यथास्यात्तथा चरन्ति कुरङ्गकुलानि मृगयूथानि यस्मिस्तथाभूतम्, क्वापि क्वचिदपि प्रदेशे क्रीडाव्यग्र क्रोड क्रीडायां लीलायां व्यग्राः व्यस्ताः कोडाः शूकरायस्मिस्तथा भूतम्; क्वचिदपि प्रदेशान्तरे मदजडविहरन्मतंगजसंकुलम् मदेन दानोद्भेदेन जडैः निष्क्रिय विहरद्भिः विलासशीलमतंगजेहस्तिभिः संकुलम् व्याप्तम् क्वापि प्रदेशे सिंहक्ष्वेडारौद्रं सिंहानां क्ष्वेडाभिः गजितध्वनिभिः रौद्रं भयंकरम्, कचिदपि प्रदेशे विषविषममहाभुजंग विजम्भितम् विषेण विषमाणां भयङ्कराणा महाभुजङ्गानां विजृम्भितम्