________________
निर्णतं पाठका एव प्रमाणम् । किन्तु मुद्रणपूर्वरूपानवलोकनजन्यमशुद्धीनां बाहुल्यं पश्चादृष्टिपथमारूढम् । पुस्तकस्यास्य पुनर्मुद्रणं विना लोकदृष्टिपथप्रापणमनुचितमिति विचार्य किंकर्तव्यमूढेन किञ्चिन्नि”तुमपारयता, कृतस्य व्ययस्य नष्कल्यं मा भूदिति भक्तजनप्रेरणामधिगत्य द्वितीयाध्यायान्त एव भागः सम्प्रति प्रकाशितः । सति सर्वथा विश्वसनीयशुद्धमुद्रणप्रबन्धेऽग्निमोऽपि ग्रन्थो यथासम्भवं झटित्येव लोकदृष्टिपथमवतारयिष्यत इति विश्वसिमि ।
अत्र यद्यपि शुद्धिपत्रमपि योजितम्; किन्तु तदल्पकलेवरमिति तत्र सर्वासामशुद्धीनां परिमार्जनमसम्भवमासीदिति घ-धयोः, भ-मयो, ब-वयोः परस्परव्यत्ययः, अनुस्वार-विसर्ग-रेफादीनां त्रुटेराधिक्यम् वा स्थूलतरमशुद्धं विभाव्य न परिहृतम् । किञ्च लक्षणसमन्वयस्थले प्रायः त्रुटेरधिकस्थानेऽस्ति। तदीयपरिमार्जनमपि क्लेशावहमिति तदपि प्राय: परित्यक्तमेव । अक्षरस्यातिलघुतया दृष्टिच्युतिदोषजा अपि बहुतराशुद्धयः शोधनेन वञ्चिताः सम्भाव्यन्त इति ताः सर्वा अपि गुणग्रहणपरः सुधीभिः स्वयमेव संशोध्य व्यवहर्तव्या इति विनतः प्रार्थयेयमित्यतोऽन्यन्न किमपि तत्परिमार्जनसाधनम् ।
यथावस्थमेतत्पाठकानां पुरतः स्थापयतो ममतावानेव हों यत्परमगुरूणां तेषां परिश्रमः जनानां किश्चिदप्युपकुर्वन्, निर्वाणपदमास्थितानामपि तेषां चेतसि परमं प्रमोदमाधास्यतीति ।
अन्ते च
"गच्छतः स्खलनं क्वापि भवत्येव न संशयः । हसन्ति दुर्जनास्तत्र समादधति सज्जनाः ॥"
इति सूक्तिमवलम्ब्य समाधानं सम्भावयन् सन्तोषमासादयामि ।