________________
[ त ]
तद्विषये बहुलेखनमनावश्यकं मन्ये। एतेषां जन्म भाद्रकृष्णषष्ठ्या १६५३ मिते विक्रमवत्सरे सौराष्ट्रजनपदान्तर्गते बोटादनगरेऽभूत् । आषाढशुक्लपञ्चम्यां १९७२ तमे विक्रमवत्सरे राजस्थानान्तर्गते सादडीग्रामे च दीक्षिता एते । महादीक्षा च एतैः मार्गशुक्लपञ्चम्यां १९७३ मिते विक्रमवत्सरे लधा। कातिककृष्णद्वितीयायां अमदाबादे १६८९ विक्रमवत्सरे प्रवर्तकपदमाप्तम् । मार्गशुक्लाष्टम्यां १६६० विक्रमवत्सरे भावनगरे सौराष्ट्रान्तर्गते गणिपदमुपलब्धम् । मार्गशुक्लदशम्यां १९६० तमे विक्रमवर्षे भावनगर एव पन्यासपदमपि गताः। ज्येष्ठकृष्णनवम्यां १९९१ तमे विक्रमवर्षे चोपाध्यायतया ख्याताः महुआनगरे सौराष्ट्रान्तर्गत एव। वैशाखशुक्लचतुर्थ्यां १९६२ तमे विक्रमवर्षे चाचार्यपदमलङ्कृतम् । दैवदुर्विपाकाच्च सर्वथा ग्रन्थादिरचनासामर्थ्य भाजोऽपि सततं यथोपलब्धसमयस्य तदर्थमेवोपयोगं कुर्वाणा अपि शरीरशथिल्यात् २०२० विक्रमवत्सरे फाल्गुनकृष्णनवम्यां राजस्थानान्तर्गत (राणावतों का)खि माडा ग्रामे दिवमगमन् ।
एतश्च सर्वशास्त्रप्रविष्टप्रखरमतिभिः समयानुसारं लोकानां मतिवैभवमान्द्यमवलोक्य शास्त्रीयग्रन्थानां च सर्वजनसुखसंवेदनीयतासिद्धयर्थं तद्वयाख्याने स्वसमय उपयुक्तः । सर्वतोऽधिकं पू० आचार्यश्रीहेमचन्द्रसूरीश्वरविरचित-सिद्धहेमचन्द्रशब्दानुशासनीय-स्वोपज्ञशब्दमहार्णवन्यासस्य देवयोगाद् यत्र तत्र बहुत्रुटितस्यानुसंधानं तदीयप्रकाशनव्यवस्थापनं च विधाय महदुपकृतं शासनस्येति सर्वविदितमेव । एवं काव्यानुशासनस्यापि सवृत्तिकस्य टीका महता सौष्ठवेन विरचिता साऽपि भागशः प्रकाशिता प्रकाशयिष्यमाणा च । तृतीयमिदं छन्दोऽनुशासनमपि दुख्यिाविषमूच्छितव्याख्यातं वा न तिष्ठेदित्येतस्यापि टीका रचितव। परं विधिगतिवशतो नास्य प्रकाशनं तैः स्वाग्रे सम्पादितमभूदिदिति खेद एव विदुषां, येन चात्र पुनस्तेषां दृष्टिपातः सम्यङ् नाभूत् ।
सम्पादकस्य निवेदनम् मया प्रगुरुवराणां तेषां कृपादृष्टिपूतेन यथामतिविभवमस्य सम्पादनं कृतमपि, अस्थिरनिवास-बहुतरलोकप्रभावनादिकार्यचञ्चलेन कियत्तत्र पारितमिति